________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [अन्यकृतफलोपभोगेऽतिप्रसंगः अचेतनं कथं च । करोति तकं तदभावे भुक्ते च कथं अमूर्त इति॥१८७॥]
अन्यकृतफलोपभोगे प्रकृत्यादिनिवर्तितफलानुभवेऽभ्युपगम्यमानेऽतिप्रसङ्गः भेदाविशेषेऽन्यकृतस्यान्यानुभवप्रसङ्गात् वास्तवसंबंधाभावात् अचेतनं च कथं करोति तत्प्रधानं किंचिदध्यवसायशून्यत्वात् घटवत् न हि घटस्यापराप्रेरितस्य क्वचित्करणमुपलब्धं न च प्रेरकः पुरुषः उदासीनत्वादेकस्वभावत्वाच्च तदभावे भोग्याभावे शरीराभावे वा भुंक्ते च कथं अमूर्त इति बुद्धिप्रतिबिम्बोदयरूपोऽपि भोगो न युज्यते अमूर्तस्य प्रतिबिम्बाभावात् भावेऽपि मुक्तादिभिरतिप्रसङ्गः न च सन्निहितमपि किंचिदेव प्रतिबिंब्यते न सर्व तत्स्वभावमिति विशेषहेत्वभावात् अलं प्रसङ्गेन। किंच
न य चेयणा वि अणुभवसिद्धा देहमि पावई एवं ।
तीए विरहमि दढं सुहदुस्काई न जुज्जति ॥१४॥ [न च चेतनापि अनुभवसिद्धा देहे प्राप्नोति एवम् । तस्या अभावे दृढं सुखदुःखायो न युज्यन्ते ॥१८८॥]
न च चेतनापि अनुभवसिद्धा स्पृष्टोपलब्धिद्वारेण देहे प्राप्नोति एवमेकान्तभेदे सति, न हि घटे काष्ठादिना स्पृष्टे चैतन्यं, वेद्यते च देह इति, तस्याश्चेतनाया विरहे चाभावे च दृढमत्यर्थं सुखदुःखादयो न युज्यन्ते, न हि पाषाणप्रतिमायां सुखादयोऽचेतनत्वादिति, यदि न युज्यन्ते नाम का हानिरित्येतदाशंक्याह