Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 191
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। न्यायागतानामिति, न्यायो द्विजक्षत्रियविशूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेनेशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह । अन्नादीनां द्रव्याणां आदिग्रहणात्पानवस्त्रपात्रौषधभेषजादिपरिग्रहः अनेनापि हिरण्यादिव्यवच्छेदमाह । कल्पनीयानामिति उद्गमादिदोषपरिवजितानां अनेनाकल्पनीयानां निषेधमाह । देशकालश्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युस्थानासनदानवंदनाद्यनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह । परमया प्रधानया भत्तया इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति ॥ आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु । एवं जिणेहि भणियं गिहीण सिक्खावयं चरिमं३२६ [आत्मानुग्रहबुद्ध्या संयतेभ्यः यदन्न दानं तु। एतद् जिनः भणितं गृहिणांशिक्षापदं चरमम् ॥३२६] आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति तथाहि आत्मपरानुग्रहपरा एव यतयः संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति एतन्जिनैस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानं इह भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते । आत्मार्थनिष्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः । यत उक्तं।

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228