Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 207
________________ सटीकश्रावकप्रज्ञयाख्यप्रकरणं! १९५ [गुरुसाक्षिक एव धर्मः संपूर्णविधिः कदाचिच्च विशेषः। तीर्थकराणां च आज्ञा साधुसमीपे व्युत्सृजतः॥३५॥ गुरुसाक्षिक एव धर्म इत्यतः स्वयं गृहीतमपि तत्सकाशे ग्राह्यमिति तथा संपूर्णविधिरित्थमेव भवतीत्यभिप्रायः कदाचिच्च विशेषः प्रागप्रत्याख्यातमपि किंचित्साधुसकाशे संवेगे प्रत्याख्यातीति तीर्थकराणां चाज्ञा संपादिता भवतीत्येते गुणाः साधुसमीपे व्युत्सृजतः प्रत्याख्यानं कुर्वत इति सामाचारीशेषमाह सुणिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं। काऊण य करणिज्जं भावम्मि तहा ससतीए॥३५२॥ [ श्रुत्वा ततो धर्म यथाविहारं च पृष्ट्वा ऋषीणाम्। कृत्वा च करणीयं भावे तथा खशक्त्या ॥ ३५२॥] श्रुत्वा ततो धर्म क्षान्त्यादिलक्षणं साधुसकाशे इति गम्यते यथाविहारं च तथाविधचेष्टारूपं पृष्टा ऋषीणां संबन्धिनं, कृत्वा च करणीयं ऋषीणामेव संबन्धि भाव इत्यस्तितायां करणीयस्य स्वशक्त्या स्वविभवाद्यौचित्येनेति । ततो अणिंदियं खलु काऊण जहोचियं अणुहाणं । भुतूण जहा विहिणा पच्चक्खाणं च काऊण॥३५३॥ [ततः अनिंद्यं खलु कृत्वा यथोचितमनुष्ठानम्। भुक्त्वा यथाविधिना प्रत्याख्यानं च कृत्वा ॥ ३५३ ॥] ततस्तदनन्तरमनिन्द्यं खलु इहलोकपरलोकानिन्द्यमेव कृत्वा यथोचितमनुष्ठानं यथा वाणिज्यादि तथा भुक्त्वा यथाविधिना

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228