Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 214
________________ २०२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । मृषावादिनोऽकृतनिवेदनात्पापा एव जिनैस्ते भणिता मृषावादित्वादेवेति । जे वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। बहु मन्नंति न सम्मं वंदणगं ते वि पाव ति ॥३७२॥ [येऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। बहु मन्यन्ते न सम्यग्वन्दनकं तेऽपि पापा इति ३७२ येऽपि च साध्वादयो निवेदिते सति कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीरा इति पूर्ववन्न बहु मन्यन्ते न सम्यक् वन्दनकं कुर्वन्ति तेऽपि पापा गुणवति स्थानेऽवज्ञाकरणादिति । क्वचिद्वेलाभावेऽपि विधिमाह जइ वि न वंदणवेला तेणाइभएण चेइए तहवि । द₹णं पणिहाणं नवकारेणावि संघमि ॥ ३७३॥ [यद्यपि न वन्दनवेला स्तेनादिभयेषु चैत्यानि तथापि । दृष्ट्वा प्रणिधानं नमस्कारेणापि संघे ॥ ३७३ ॥] यद्यपि क्वचिच्छ्न्यादौ न वन्दनवेला स्तेनश्वापदादिभयेषु चैत्यानि तथापि दृष्ट्वा अवलोकननिबन्धनमपि प्रणिधानं नमस्कारेणापि संघ इति सङ्कविषयं कार्यमिति । तमि य कए समाणे वंदावणगं निवेइयत्वं ति। तयभावंमि पमादा दोसो भणिओ जिणिंदेहिं ३७४ [तस्मिन्नपि कृते सति वन्दनं निवेदयितव्यमिति । तद्भाचे प्रमादात् दोषः भणितः जिनेन्द्रैः ॥ ३७४ ॥]

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228