Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 223
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [एवमप्रतिते सम्यक्त्वे देवमनुजजन्मसु। अन्यतरश्रेणिवर्जमेकभवेनैव सर्वाणि ॥ ३९१ ॥] - एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु चारित्रादेलाभः उक्तपरिणामविशेषतः पुनस्तथाविधकर्मविरहादन्यतर)णिवर्जमेकभवेनैव सर्वाण्यवाप्नोति सम्यक्त्वादीनीति । यदुक्तं शाश्वतसौख्यो मोक्ष इति तत्प्रतिपादयन्नाह रागाईणमभावा जम्माईणं असंभवाओ य । अब्बाबाहाओ खलु सासयसुक्खं तु सिद्धाणं ॥३९२॥ रागादीनामभावाजन्मादीनामसंभवाच्च । तथा अव्याबाधातः खलु शाश्वतसौख्यमेव सिद्धानां इति गाथाक्षरार्थः भावार्थमाह रागो दोसो मोहो दोसाभिस्संगमाइलिंग ति। अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स ॥३९३॥ [रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति । अतिसंक्लेशरूपा हेतवोऽपि च संक्लेशस्य ॥ ३९३ ॥] रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति अभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणो मोह इति । अति संक्लेशरूपास्तथानुभवोपलब्धेः हेतवोऽपि च संक्लेशस्य क्लिष्टकर्मबन्धनिबन्धनत्वादिति : - एएहभिभूआणं संसारीणं कुओ सुहं किंचि । जम्मजरामरणजलं भवजलहिं परियडताणं ॥३९४॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228