Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 218
________________ २०६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । चरणपरिणामविरहा नारंभादप्पवित्तिमितो सो। तज्जुतुवसग्गसहाण जं न भणिओतिरिक्खाणं३.१ [चरणपरिणामविरहात् नारम्भाद्यप्रवृत्तिमात्रोऽसौ। तद्युक्तोपसर्गसहानां यन्न भाणितस्तिरश्चामिति ॥३८१॥ चरणपरिणामविरहादित्युक्तमेव स एव तथानिवृत्तस्य किं न भवतीत्याशङ्कयाह नारम्भाद्यप्रवृत्तिमात्रोऽसौ चरणपरिणाम इति कुतस्तद्युक्तोपसर्गसहानां यन्न भणितस्तिरश्चामिति तथाह्यारंभाद्यप्रवृत्तियुक्तानामपि पिपीलिकाद्युपसर्गसहानां चण्डकौशिकादीनां न चारित्रपरिणामः अतोऽयमन्य एवात्यन्तप्रशस्तोऽचि न्त्यचिन्तामणिकल्प इति पुनरपि केषांचिन्मतमाशंक्यते केई भणंति एसा संलेहणा मो दुवालसविहंमि । भणिया गिहत्थधम्मे न जओ तो संजए तीए ३.२ [केचन भणन्ति एषा संलेखना द्वादशविधे । भणिता गृहस्थधर्मे न यतः ततःसंयतः तस्याम्॥३८२॥ . केचनागीतार्था भणन्ति एषा अनन्तरोदिता संलेखना द्वादशविधे पंचाणुव्रतादिरूपे भणिता गृहस्थधर्मे श्रावकधर्म इत्यर्थः न यतस्ततस्तस्मात्कारणात्संयतः प्रवजित एव तस्यामिति । अत्रो. च्यते न भणितेत्यसिद्धम् । भणिया तयणंतरमो जीवंतस्सेस बारसविहो उ। एसा य चरमकाले इत्तरिया चेव ता ण पुढो ३.३

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228