Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 194
________________ १८२ सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। मिति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति “ तेन तावमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः” इति मात्सर्याद्ददाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति । ५। उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुव्रतादीनां यानि यावत्कथिकानि यानि चेत्वराणि तदेतदाह । .. इत्थ उ समणोवासगधम्मे अणुव्वयगुणव्वयाई च। आवकहियाइ सिक्खावयाई पुण इतराई ति॥३२॥ [अत्र तु श्रमणोपासकधर्मे अनुव्रतानि गुणवतानि च। यावत्कथिकानि शिक्षात्रतानि पुनरित्वराणीति ३२८] अत्र पुनः श्रमणोपासकधर्मे तुशब्दः पुनःशब्दार्थः स चावधारणे अत्रैव न शाक्याापासकधर्मे तत्र सम्यक्त्वाभावेन अणुव्रताधभावात् उपास्ते इत्युपासकः सेवकः इत्यर्थः श्रमणानामुपासकस्तस्यं धर्म इति समासः अणुव्रतानि गुणव्रतानि चेति पञ्चागुब्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानीति सकृद्रहीतानि यावज्जीवमपि भावनीयानि न तु नियोगतो यावजीवमेवेति गुरवो व्याचक्षते प्रतिचातुर्मासकमपि तद्रहणं वृद्धपरंपरायाततया सामाचार्युपलब्धेः शिक्षापदव्रतानि पुनरित्वराणि शिक्षा अभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि इत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्येते इति भाव

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228