Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 200
________________ १८८ सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं । आह चोदकः कथं पुनर्मनसा करणं कारणमनुमतिश्चान्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वादनुपपत्तिरित्यभिप्रायः । गुरुराह । यथा वाक्तनुयोगाभ्यां करणादयः करणकारणानुमोदनानि तथा भवेद मनसापीति कथमित्याह । तयहीणता वयतणुकरणाईण अहवा उ मणकरणं । सावज्जजोगमणणं पन्नत्तं वीयरागेहिं ॥ ३३७ ॥ [ तद्धीनत्वात् वाक्तनुकरणादीनां अथवा तु मनःकरणं । सावद्ययोगमननं प्रज्ञप्तं वीतरागैः ॥ ३३७ ॥ ] तदधीनत्वादिति मनोयोगाधीनत्वात् वाक्तनुकरणादीनां तेन ह्यालोच्य वाचा कायेन वा करोति कारयति चेत्यादि अभिसंधिमन्तरेण प्रायस्तदनुपपत्तेः । प्रकारान्तरं चाह । अथवा मनःकरणं किं सावद्ययोगमननं करोम्यहं एतदिति सपापव्यापारचिन्तनं प्रज्ञप्तं वीतरागैरिति ॥ कारवणं पुण मणसा चिंतेइ करेउ एस सावज्जं । चिंतेई य कए पुण सुट्ठकथं अणुमई होइ ॥ ३३४ ॥ [ कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यम् । चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति ॥ ३३८ ॥ ] कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यं असावपि चेङ्गितज्ञोऽभिप्रायात्प्रवर्तत एव, चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति मानसी अभिप्रायज्ञो विजानात्यपीति । उक्तः प्रत्याख्यानविधिरधुना श्रावकस्यैव निवासादिविषयां सामाचारीं प्रतिपादयन्नाह ॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228