Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 202
________________ १९० सटीकश्श्रावकप्रज्ञत्याख्यप्रकरणं । मथ्यते विलोज्यते येन तत्तथा न केवलमपायनिबन्धन कदर्थनमेव किन्तु कल्याणकारणोपकारि चेत्याह सम्यग्दर्शन विशुद्धिहेतुच सम्यगविपरीतं तत्त्वार्थश्रद्धानलक्षणं दर्शनं सम्यग्दर्शनं मोक्षादिसोपानं तद्विशुद्धिकरणं च किं तच्चैत्यवन्दनादि आदिशब्दात्पूजादिपरिग्रहः विधिना सूत्रोक्तेन प्रज्ञप्तं प्ररूपितं वीतरागैरर्हद्भिः स्थाने शुभाध्यवसायप्रवृत्तेरेतच्च चैत्यगृहे सति भवतीति गाथार्थः उक्ताश्चैत्यगृहगुणाः सांप्रतं समानधार्मिक गुणानाह साहम्मियथिरकरणं वच्छले सासणस्स सारो ति । मग्गसहायत्तणओ तहा अणासो य धम्माओ ३४२ [ साधर्मिकस्थिरीकरणं वात्सल्ये शासनस्य सार इति । मार्गसहायत्वात्तथा अनाशश्च धर्मात् ॥ ३४२ ॥ ] समानधार्मिक स्थिरीकरणमिति यदि कश्चित्कथंचिद्धर्मात् प्रच्यव ततस्तं स्थिरीकरोति महांश्चायं गुणः तथा वात्सल्ये क्रियमाणे शासनस्य सार इति सार आसेवितो भवति उक्तं च "जिणसासणस्स सारो" इत्यादि सति च तस्मिन् वात्सल्यमिति तथा तेन तेनोपबृंहणादिना प्रकारेण सम्यग्दर्शनादिलक्षणमार्गसहायत्वादनाशश्च भवति कुतो धर्मात्तत एवेति गाथार्थः उक्ताः समानधर्मिक गुणाः सांप्रतं तत्र निवसतो विधिरुच्यते तत्रापि च प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गाईस्थमनुपालयन्त्यतो निद्रावबोधद्वारेणाह १ असार आसेवितो भवति उक्तजिणसासणस्स सारो इत्यादि । व सारश्च सेवेतो भवता उत्तापगागण भासण सरो इत्यादि ।

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228