Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 204
________________ १९२ सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं । पूजायां भगवतोऽपि किल क्रियमाणायां कायवधो भवति पृथिव्याद्युपमर्दमन्तरेण तदनुपपत्तेः, प्रतिक्रुष्टः स च कायवधः "सब्वे जीवा न हंतव्वे" त्यादि वचनात् किं च न च पूज्यानामर्हतां तच्चै - · त्यानां वा उपकारिणी पूजा अर्हतां कृतकृत्यत्वात् तच्चैत्यानामचेतनत्वात् इतिशब्दो यस्मादर्थे यस्मादेवं ततस्तस्मादेव पूजा न कर्तव्येति चोदक इति अत्राह आह गुरू पूया काय हो होइ जइ वि हुं जिणाणं । तह वि तई कायव्वा परिणामविसुद्धिहेऊओ ३४६ [ आह गुरुः पूजायां कायवधः भवत्येव यद्यपि जिनानाम् - तथापि सा कर्तव्या परिणामविशुद्धिहेतुत्वात् ३४६ ] आह गुरुरित्युक्तवानाचार्यः पूजायां क्रियमाणायां कायवधः पृथिव्याद्युपमर्दो यद्यपि भवत्येव जिनानां रागादिजेतॄणामित्यनेन तस्याः सम्यग्विषयमाह । तथाप्यसौ पूजा कर्तव्यैव कुतः परिणा। मविशुद्धिहेतुत्वादिति न चायं हेतुरसिद्ध इति परिहरति भणियं च कूवनायं दव्वत्थवगोयरं इहं सुत्ते । निययारंभपवत्ता जं च गिही तेण कायव्वा ॥३४७॥ [ भणितं च कूपज्ञातं द्रव्यस्तवगोचरं इह सूत्रे | नियतारम्भप्रवृत्ता यच्च गृहिणः तेन कर्तव्या ॥३४७॥ ] भणितं च प्रतिपादितं च कूपज्ञातं कूपोदाहरणं किं विषयमित्याह द्रव्यस्तवगोचरं द्रव्यस्तवविषयं इह सूत्रे जिनागमे "दव्व १ कायवहो जइ वि होइ उ जिणाणं ।

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228