Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 199
________________ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । १८७ [ तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये । सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः ३३४ ] यद्येवं तत्कथं निर्युक्तौ प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति " दुविहं तिविहेण पढमउ" इत्यादिवचनेन । अत्रोच्यते । स स्वविषये यत्रानुमतिरस्ति तत्र तन्निषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति । परिहारान्तरमाह पुत्ताइसंत इनिमित्तमितमेगारसिं पवन्नस्स । जंपंति केइ गिहिणो दिकाभिमुहस्स तिविहं पि ३३५ [ पुत्रादिसन्ततिनिमित्तमात्रम् एकादशीं प्रपन्नस्य । जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि ३३५ पुत्रादिसन्ततिनिमित्तमात्रं प्रव्रजितोऽस्य पितेत्येवं विज्ञाय परिभवन्ति केचन तत्सुतं अप्रव्रजिते तु न एतावद्भिश्चाहोभिरसौ मानुषी भवत्येवेति तत ऊर्ध्वं गुणमुपलभ्य एतन्निमित्तं प्रवित्रजिषुरपि कश्चित्पर्यन्तवर्तिनीमुपासकप्रतिमां प्रतिपद्यत इति तदाह एकादशीं प्रपन्नस्य श्रवणभूताभिधानामुपासकप्रतिमामाश्रितस्य जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि प्रत्याख्यानमिति आह कहं पुण मणसा करणं कारावणं अणुमई य । जह वइतणुजोगेहिं करणाई तह भवे मणसा ॥ ३३६ ॥ [ आह कथं पुनर्मनसा करणं कारणं अनुमतिश्च । यथा वाक्तनुयोगाभ्यां करणाद्यः तथा भवेत् मनसा ३३६ ]

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228