Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
रत्नकरण्डकश्रावकाचारे
श्रेष्ठिनी समुद्रदत्ता पुत्री दरिद्रा । मृते सागरदत्ते दरिद्रा एकदा परगृहे निक्षिप्तसिक्थानि भक्षयन्ती चर्स प्रविष्टेन मुनिद्वयेन दृष्टा ततो लघुमुनिनोक्तं हा ! वराकी महता कष्टेन जीवतीति । तदाकर्ण्य ज्येष्ठमुनिनोक्तं अत्रैवास्य राज्ञः पट्टराज्ञी वल्लभा भविष्यतीति । भिक्षां भ्रमता धर्मश्रीवदंकेन तद्वचनमाकर्ण्य नान्यथा मुनिभाषितमिति संचिन्त्य स्वविहारे तां नीत्वा मृष्टाहारैः पोषिता । एकदा यौवनभरे चैत्रमासे अन्दोलयन्ती तां राजा दृष्टा अतीब विरहावस्थां गतः । ततो मंत्रिभिस्तां तदर्थ वंदको याचितः। तेनोक्तं यदि मदीयं धर्म राजा गृह्णाति तदा ददामीति । तत्सर्वं कृत्वा परिणीता । पट्टमहादेवी तस्य सातिवलुभा जाता । फाल्गुननन्दीश्वरयात्रायामुर्विला रथयात्रामहारोपं दृष्टा तया भणिता देव ! मदीयो बुद्धरथोऽधुना पुर्या प्रथमं भ्रमतु । राज्ञा चोक्तमेवं भवत्विति । तत उर्विला वदति मदीयो रथो यदि प्रथमं भ्रमति तदाहारे मम प्रवृत्तिरन्यथा निवृत्तिरिति प्रतिज्ञां गृहीत्वा क्षत्रियगुहायां सोमदत्ताचार्यपाइँ गता । तस्मिन् प्रस्तावे वज्रकुमारमुनेर्वन्दनाभक्त्यर्थमायाता दिवाकरदेवादयो विद्याधरास्तदीयवृत्तान्तं च श्रुत्वा वज्रकुमारमुनिना ते भणिताः । उर्विलायाः प्रतिज्ञारूढाया रथयात्रा कारिता तमतिशयं दृष्टा पूतिमुखा बुद्धदासी अन्ये च जना जिनधर्मरता जाता इति ॥ २० ॥
ननु सम्यग्दर्शनस्याष्टभिरङ्गैः प्ररूपितैः किं प्रयोजनं ? तद्विकलस्याप्यस्य संसारोच्छेदनसामर्थ्यसंभवादित्याशंक्याहः
नांगहीनमलं छेत्तुं दर्शनं जन्मसन्ततिम् । .
न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनां ॥ २१ ॥ ' दर्शनं कर्तृ । जन्मसन्ततिं । संसारप्रबन्धं । ' छेत्तुं । उच्छेदयितुं ' नालं' न समर्थ । कथंभूतं सत् , ' अंगहीनं ' अंगौनिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456