Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
चतुर्थः परिच्छेदः।
७५
चेतव्यं वृद्धि नेतव्यं । किं ? सामायिकं । कदा ? प्रतिदिवसमपि न पुनः कदाचित् पर्व दिवसे एव । कथं ? यथावदपि प्रतिपादितस्वरूपानतिक्रमेणैव । कथंभूतेन ? अनलसेनाऽऽलास्यरहितेन उद्यतेनेत्यर्थः । तथाऽवधानयुक्तेनैकाप्रचेतसा । कुतस्तदित्थं परिचेतव्यं ? व्रतपंचकपरिपूरणकारणं यतः व्रतानां हि सविरत्यादीनां पंचकं तस्य परिपूरणं परिपूरणत्वं महाव्रतरूपत्वं तस्य कारणं यथोक्तसामायिकानुष्ठानकाले हि. अणुव्रतान्यपि महाव्रतत्वं प्रतिपद्यन्तेऽतस्तत्कारणं ॥ ११॥ एतदेव समर्थयमानः प्राहः
सामयिके सारम्भाः परिग्रहा नैव सन्ति सर्वेऽपि ।
चेलोपसृष्टमुनिरिव गृही तदा याति यतिभावं ॥१२॥ सामयिके सामायिकावस्थायां । नैव सन्ति न विद्यन्ते । के ! परिग्रहाः सङ्गाः । कथंभूताः ? सारम्भाः कृष्याद्यारम्भसहिताः। कति ! सर्वेऽपि “ बाह्याभन्तराश्चेतनेतरादिरूपा" वा । यत एव ततो याति प्रतिपद्यते । कं ? यतिभावं यतितत्वं । कोऽसौ ? गृही श्रावकः । कदा ? सामायिकावस्थायां । कइव ? चेलोपसृष्टमुनिरिव चेलेन वस्रेण उपसृष्टा उपसर्गवशाद्वेष्टितः स चासौ मुनिश्च स इव तद्वत् ॥ १२ ॥ तथा सामायिके स्वीकृतवन्तो ये तेऽपरमपि किं कुर्वन्तीत्याहः
शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधराः। सामायिक प्रतिपन्ना अधिकुर्वीरनचलयोगाः ॥१३॥ अधिकुरिन् सहेरनित्यर्थः । के ते? सामयिकं प्रतिपन्नाः सामायिक स्वीकृतवन्तः । किं विशिष्टाः सन्तः ? अचलयोगाः स्थिरसमाधयः प्रतिज्ञातानुष्ठानापरित्यागिनो वा । तथा मौनधरास्तत्पीडायां सत्यामपि कीबादिवचनानुच्चारकाः । कमधिकुरिन्नित्याह-शीतेत्यादि शीतोष्ण.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456