Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 432
________________ रत्नकरण्डकश्रावकाचारे एवंविधैरतिचारै रहितां सलेखनां अनुतिष्ठन् कीदृशं फलं प्राप्नोत्याहः... निःश्रेयसमभ्युदयं निस्तीरं दुस्तरं सुखाम्बुनिधिम् । .. निःपिबति पीतधर्मा सर्वैर्दुःखैरनालीढः ॥९॥ निष्पिबति आस्वादयति अनुभवति वा कश्चित् सल्लेखनानुष्ठाता । किं तत् ? निःश्रेयसं निर्वाणं । किंविशिष्टं ? मुखाम्बुनिधि सुखसमुद्रस्वरूपं तर्हि सपर्यन्तं तद्भविष्यतीत्याह-निस्तीरं तीरात्पर्यन्तान्निष्क्रान्तं कश्चित्पुनस्तदनुष्ठाता अभ्युदयमहमिन्द्रादिसुखपरंपरां निष्पिबति । कथंभूतं ? दुस्तर महता कालेन प्राप्यपर्यन्तं । किंविशिष्टः सन् ? सर्वैर्दुःखैरनालीढः सर्वैः शारीरमानसादिभिर्दुःखैरनालीढोऽसंस्पृष्टः । कीदृशः सन्नेतद्वयं निष्पिबति ? पीतधर्मा पीतोऽनुष्ठितो धर्म उत्तमक्षमादिरूपः चारित्रस्वरूपो वा येन ॥९॥ किं पुनर्निःश्रेयसशब्देनोच्यत इत्याह;-. जन्मजरामयमरणैः शोकैदुःखैर्भयैश्च परिमुक्तम् । निर्वाणं शुद्धसुखं निःश्रेयसमिष्यते नित्यम् ॥ १० ॥ निःश्रेयसमिष्यते । किं ? निर्वाणं । कथंभूतं शुद्धसुखं शुद्ध प्रतिद्वन्द्वरहितं सुखं यत्र । तथा नित्यं अविनश्वरस्वरूपं । तथा परिमुक्तं रहितं । कैः ? जन्मजरामयमरणैः, जन्म च पर्यायान्तरप्रार्दुभावः जरा च वार्धक्यं, आमयाश्च रोगाः, मरणं च शरीरादिप्रच्युतिः । तथा शोकैर्दुःखैर्भयैश्च परिमुक्तं ॥ १०॥ ___ इत्थंभूते च निःश्रेयसे कीदृशः पुरुषाः तिष्ठन्तीत्याह, विद्यादर्शनशक्तिस्वास्थ्यप्रह्लादतृप्तिशुद्धियुजः। निरतिशया निरवधयो निःश्रेयसमावसन्ति सुखम् ॥११॥ निःश्रेयसमावसन्ति निःश्रेयसि तिष्ठन्ति । के ते इत्याह-विद्येत्यादि विद्या केवलज्ञानं, दर्शनं केवलदर्शनं, शक्तिरनन्तवीर्य, स्वास्थ्यं परमोदासनिता, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456