Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
पंचमः परिच्छेदः।
साम्प्रतमब्रह्मविरतत्वगुणं श्रावकस्य दर्शयन्नाहः
मलबीजं मलयोनिं गलन्मलं पूतिगन्धि बीभत्सं।
पश्यनङ्गमनङ्गाद्विरमति यो ब्रह्मचारी सः ॥ २२ ॥ अनङ्गात् कामाद्यो विरमति व्यावर्तते स ब्रह्मचारी । किं कुर्वन् ! पश्यन् । किं तत् ? अङ्गं शरीरं । कथंभूतमित्याह-मलेत्यादि मलं शुक्रशोणितं बीजं कारणं यस्य । मलयोनि मलस्य मलिनतायाः अपवित्रत्वस्य योनिः कारणं । गलन्मलं गलन् स्रवन् मलो मूत्रपुरीषस्वेदादिलक्षणो यस्मात् । पूतिगंधि दुर्गन्धोपेतं । बीभत्सं सर्वावयवेषु पश्यतां बीभत्सभावोत्पादकं ॥ २२॥ इदानीमारम्भविनिवृत्तिगुणं श्रावकस्य प्रतिपादयन्नाहः
सेवाकृषिवाणिज्यप्रमुखादारम्भतो व्युपारमति । प्राणातिपातहेतोर्योऽसावारम्भविनिवृत्तः ॥ २३ ॥ यो व्युपारमति विशेषेण उपरतः व्यापारेभ्य आसमन्तात् जायते असावारम्भविनिवृतो भवति । कस्मात् ! आरम्भतः । कथंभूतात् ! सेवाकृषिवाणिज्यप्रमुखात्,सेवाकृषिवाणिज्याःप्रमुखा आद्या यस्य तस्मात्। कथंभूतात् ? प्राणातिपातहेतोः प्राणानामतिपातो वियोजनं तस्य हेतोः कारणभूतात् । अनेन स्नपनदानपूजाविधानाधारंभादुपरतिनिराकृताः तस्य प्राणातिपातहेतुत्वाभावात् प्राणिपीडापरिहारेणैव तत्संभवात् । वाणिज्याद्यारम्भादपि तथा संभवस्तर्हि विनिवृत्तिर्न स्यादित्यपि नानिष्टं प्राणिपीडाहेतोरेव तदारम्भात् निवृत्तस्य श्रावकस्यारम्भविनिवृत्तत्वगुणसम्पन्नतोपपत्तेः ॥ २३ ॥ अधुना परिग्रहनिवृत्तिगुणं श्रावकस्य प्ररूपयन्नाहःबाह्येषु दशसु वस्तुषु ममत्वमुत्सृज्य निर्ममत्वरतः ।
खस्थः सन्तोषपरः परिचित्तपरिग्रहाद्विरतः ॥२४॥ Jain Education Internama.-७
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456