Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 438
________________ रत्नकरण्डकश्रावकाचारे परि समन्तात् चित्तस्थः परिग्रहो हि परिचित्तपरिग्रहस्तस्माद्विरतः श्रावको भवति। किंविशिष्टः सन् ? स्वस्थो मायादिरहितः । तथा सन्तोषपरः परिग्रहाकांक्षाव्यावृत्त्या सन्तुष्टः । तथा निर्ममत्वरतः । किं कृत्वा ? उत्सृज्य परित्यज्य । किं तत् ? ममत्वं मूर्छा । क ! बाह्येषु दशसु वस्तुषु । एतदेव दशधा परिगणनं बाह्यवस्तूनां दृश्यते। क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम् । शयनासनं च यानं कुप्यं भाण्डमिति दश ॥ क्षेत्रं सस्याधिकरणं वडालिकादि । वास्तु गृहादि । धनं सुवर्णादि । धान्यं ब्रीह्यादि। द्विपदं दासीदासादि। चतुष्पदं गवादि । शयनं खट्दादि । आसनं विष्टरादि । यानं डोलिकादि । कुप्यं क्षौमकार्पासकौशेयकादि । भाण्डं श्रीखण्डमंजिष्टाकांस्यताम्रादि ॥ २४ ॥ साम्प्रतमनुमतिविरतिगुणं श्रावकस्यप्ररूपयन्नाहः अनुमतिरारम्भ वा परिग्रहे ऐहिकेषु कर्मसु वा । नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः ॥२५॥ सोऽनुमतिविरतो मन्तव्यः यस्य खलु स्फुटं नास्ति । का सौ ? अनुमतिरभ्युपगमः । क ? आरंभे कृष्यादौ । वा शब्दः सर्वत्र परस्परसमुच्चयार्थः। परिग्रहे वा धान्यदासीदासादौ । ऐहिकेषु कर्मसु वा विवाहादिषु । किंविशिष्टः समधीः रागादिरहितबुद्धिः ममत्वरहितबुद्धिर्वा ॥ २५ ॥ इदानीमुद्दिष्टविरतिलक्षणयुक्तत्वं श्रावकस्य दर्शयन्नाहः गृहतो मुनिवनमित्वा गुरूपकण्ठे व्रतानि परिगृह्य । भैक्ष्याशनस्तपस्यन्नुत्कृष्टश्चेलखण्डधरः ॥ २६ ॥ उत्कृष्ट उद्दिष्टविरतिलक्षणैकादशगुणस्थानयुक्तः श्रावको भवति । कथंभूतः ? चेलखण्डधरः कोपीनमात्रवस्त्रखण्डधारकः आर्यलिंगधारीत्यर्थः। १ च डोहलकादि इति ग. दोहलिकादि इति ख. २ शिखण्डमंजिष्ठादि इति ग. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456