Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
रत्नकरण्डकश्रावकाचारे
पर्वदिनेषु चतुर्वपि मासे मासे स्वशक्तिमनिगुह्य । प्रोषधनियमविधायी प्रणधिपरः प्रोषधानशनः ॥ १९ ॥ प्रोषधेनानशनमुपवासो यस्यासौ प्रोषधानशनः । किमनियमेनापि यः प्रोषधोपवासकारी सोऽपि प्रोषधानशनव्रतसम्पन्न इत्याह-प्रोषधनियमविधायी प्रोषधस्य नियमोऽवश्यंभावस्तं विदधातीत्येवंशीलः। क तन्नियमवि. धायी ? पर्वदिनेषु चतुर्ध्वपि द्वयोश्चतुर्दश्योर्द्वयोश्चाष्टम्योरिति । किं चातुर्मास. स्यादौ तद्विधायीत्याह-मासे मासे । किं कृत्वा ? स्वशक्तिमनिगुह्य तद्विधाने आत्मसामर्थ्यमप्रच्छाद्य । किं विशिष्टः प्रणधिपरः एकाग्रतांगतः शुभध्यानरत इत्यर्थः ॥ १९॥ इदानीं श्रावकस्य सचित्तविरतिस्वरूपं प्ररूपयन्नाहः
मूलफलशाकशाखाकरीरकन्दप्रसूनवीजानि ।
नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः॥२०॥ सोऽयं श्रावकः सचित्तविरतिगुणसम्पन्नः यो नाति न भक्षयति । कानीत्याह -मूलेत्यादि मूलं च फलं च शाकश्च शाखाश्च कोपलाः करीराश्च वंशकिरणाः कंदाश्च प्रसूनानि च पुष्पाणि बीजानि च तान्येतानि आमानि अपक्कानि यो नात्ति । कथंभूतः सन् ? दयामूर्तिः दयास्वरूपः सकरुणचित्त इत्यर्थः ॥ २० ॥ अधुना रात्रिभुक्तिविरतिगुणं श्रावकस्य व्याचक्षाणः प्राह:----
अन्नं पानं खाद्य लेां नानाति यो विभावर्याम् । स च रात्रिभुक्तिविरतः सत्त्वेष्वनुकम्पमानमनाः ॥२१॥ स च श्रावको रात्रिभुक्तिविरतोऽभिधीयते यो विभावर्या रात्रौ नाश्नाति न भुंक्ते । किं तदित्याह-अन्नमित्यादि अन्नं भक्तमुद्गादि, पानं द्राक्षादि पानकं, खाद्यं मोदकादि, लेह्यं रेवादि । किविशिष्टः ? अनुकम्पमानमनाः सकरुणहृदयः । केषु ? सत्वेषु प्राणिषु ॥ २१ ॥.
१ वंशकिरला इति ग, २ द्रवद्रव्यं आम्रादि इति ख,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456