Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
पञ्चमः परिच्छेदः।
९५
विशेष इत्यत्राह-संसारशरीरभोगनिर्विण्ण इत्यनेनास्य लेशतो व्रतांशसंभवात्ततो विशेषः प्रतिपादितः । एतदेवाह-तत्त्वपथगृह्यः तत्त्वानां व्रतानां पंथा मार्गाः मद्यादिनिवृत्तिलक्षणा अष्टमूलगुणास्ते गृह्याः पक्षा यस्य । पंचगुरुचरणशरणः पंचगुरवः पंचपरमेष्ठिनस्तेषां चरणाः शरणमपायपरिरक्षणोपायो यस्य ॥ १६ ॥ तस्येदानी परिपूर्णदेशव्रतगुणसम्पन्नत्वमाहःनिरतिक्रमणमणुव्रतपश्चकमपि शीलसप्तकं चापि ।
धारयते निःशल्यो योऽसौ व्रतिनां मतो व्रतिकः ॥१७॥ व्रतानि यस्य सन्निति व्रतिको मतः । केषां ? तिनां गणधरदेवादीनां। कोऽसौ ? निःशल्यः सन् योऽसौ धारयते। किं तत् ? निरतिक्रमणमणुव्रतपंचकमपि पंचाप्यणुव्रतानि निरतिचाराणि धारयते इत्यर्थः । न केवलमेतदेव धारयते अपि तु शीलसप्तकं चापि त्रिःप्रकारगुणव्रतचतु:प्रकारशिक्षाव्रतलक्षणं शीलम् ॥ १७ ॥ अधुना सामायिकगुणसम्पन्नत्वं श्रावकस्य प्ररूपयन्नाहःचतुरावर्त्तत्रितयश्चतुः प्रणामः स्थितो यथाजातः । सामयिको द्विनिषद्यस्त्रियोगशुद्धस्त्रिसन्ध्यमभिवन्दी॥१८॥ सामयिकः समयेन प्राक्प्रतिपादितप्रकारेण चरतीति सामयिकगुणोपेतः । किंविशिष्टः ? चतुरावर्तत्रितयः चतुरो वारानावर्तत्रितयं यस्य एकैकस्य हि कायोत्सर्गस्य विधाने 'णमो अरहंताणस्य थोसामे'श्चाद्यन्तयोः प्रत्येकमावर्तत्रितयमिति एकैकस्य हि कायोत्सर्गविधाने चत्वार आवर्ता। तथा तदाद्यन्तयोरेकैकप्रणामकरणाच्चतुःप्रणामः। स्थित ऊर्ध्वकायोत्सर्गोपेतः । यथाजातो बाह्याभ्यन्तरपारिग्रहचिन्ताव्यावृत्तः। द्विनिषद्यो द्वेनिषधे उपवशेने यस्य देववन्दनां कुर्वता हि प्रारंभे समाप्तौ चोपविश्य प्रणाम: कर्तव्यः । त्रियोगशुद्धः त्रयो योगा मनोवाक्कायव्यापाराः शुद्धा सावधव्यापारहिता यस्य । अभिवन्दी अभिवन्दत इत्येवं शीलः । कथं ? त्रिसंध्यं ॥१८॥
साम्प्रतं प्रोषधोपवासगुणव्रतं श्रावकस्य प्रतिपादयन्नाहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456