Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 433
________________ पञ्चमः परिच्छेदः । प्रल्हादोऽनन्तसौख्यं, तृप्तिर्विषयानाकांक्षा, शुद्धिर्दव्य भावस्वरूप कर्ममलरहितता, एता युजन्ति आत्मसम्बन्धाः कुर्वन्ति ये ते तथोक्ताः । तथा निर-तिशया अतिशयाद्विद्यादिगुणहीनाधिकभावान्निष्क्रान्ताः । तथा निरवधयो नियत कालावधिरहिताः । इत्थंभूता ये ते निःश्रेयसमावसन्ति । सुखं सुखरूपं निःश्रेयसं । अथवा सुखं यथा भवत्येवं ते तत्रावसन्ति ॥ ११ ॥ अनन्ते काले गच्छति कदाचित् सिद्धानां विद्याद्यन्यथाभावो भविष्य-. त्यतः कथं निरतिशया निरवधयश्चेत्याशंकायामाह : -- काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्ष्या । उत्पातोऽपि यदि स्यात् त्रिलोकसंभ्रान्तिकरणपटुः ॥ १२ ॥ न लक्ष्या न प्रमाणपरिच्छिद्या । कासौ ? विक्रिया विकारः स्वरूपान्यI थाभाव: । केषां ? शिवानां सिद्धानां । कदा ? कल्पशतेऽपि गते काले । तर्हि उत्पातवशात्तेषां विक्रिया स्यादित्याह — उत्पातोऽपि यदि स्यात् तथापि न तेषां विक्रिया लक्ष्या । कथंभूतः उत्पातः ? त्रिलोकसम्भ्रान्तिकरणपटुः त्रिलोकस्य सम्भ्रान्तिरावर्त्तस्तत्करणे पटुः समर्थः ॥ १२ ॥ ते तत्राविकृतात्मानः सदा स्थिताः किं कुर्वन्तीत्याह; — ९३ निःश्रेयसमधिपन्नास्त्रैलोक्यशिखामणिश्रियं दधते । निष्किट्टिकालिकाच्छवि चामीकर भासुरात्मानः ॥ १३ ॥ निःश्रेयसमधिपन्नाः प्राप्तास्ते दधते धरन्ति । कां ? त्रैलोक्यशिखामणिश्रियं त्रैलोक्यस्य शिखा चूडाऽप्रभागस्तत्र मणिश्रीः चूडामणिश्रीः तां । किंविशिष्टाः सन्ता इत्याह — निष्किट्टेत्यादि किट्टं च कालिका च ताभ्यां निष्क्रान्ता सा छविर्यस्य तच्चामीकारं च सुवर्णे तस्येव भासुरो निर्मलतया प्रकाशमान आत्मस्वरूपं येषां ॥ १३ ॥ एवं सल्लेखनामनुतिष्ठता निःश्रेयसलक्षणं फलं प्रतिपाद्य अभ्युदयलक्षणं फलं प्रतिपादयन्नाह : Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456