Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
पञ्चमः परिच्छेदः ।
इदानीं सल्लेखनां कुर्वाणस्याहारत्यागे क्रमं दर्शयन्नाह :-- आहारं परिहाप्य क्रमशः स्निग्धं विवर्द्धयेत्पानम् । स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ ६॥ स्निग्धं दुग्धादिरूपं पानं विवर्धयेत् परिपूर्ण दापयेत् । किं कृत्वा ? परिहाप्य परित्याज्य । कं ? आहारं कवलाहाररूपं । कथं ? क्रमशः प्रागशनादिक्रमेण पश्चात् खरपानं कंजिकादिशुद्ध पानीयरूपं वा । किंकृत्वा ? हापयित्वा । किं ? स्निग्धं च स्निग्धमपि पानकं । कथं ? क्रमशः । स्निग्धं हि परिहाप्य कंजिकादिरूपं खरपानं पूरयेत् विवर्धयेत् । पश्चात्तदपि परिहाप्य शुद्ध पानीयरूपं खरपानं पूरयेदिति ॥ ६ ॥
1
---
खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पञ्चनमस्कारमनास्तनुं त्यजेत्सर्वयत्नेन ॥ ७ ॥ खरपानहापनामपि कृत्वा । कथं ? शक्त्या स्वशक्तिमनतिक्रमेण स्तोकस्तोकतरादिरूपं । पश्चादुपवासं कृत्वा तनुमपि त्यजेत् । कथं ? सर्वयत्नेन सर्वस्मिन् व्रतसंयमचारित्रध्यानधारणादौ यत्नस्तात्पर्यं तेन । किं विशिष्टः सन् ? पंचनमस्कारमनाः पंचनमस्काराहितचित्तः ॥ ७ ॥ अधुना सल्लेखनाया अतिचारानाह :जीवितमरणाशंसे भयमित्रस्मृतिनिदाननामानः | सल्लेखनातिचाराः पञ्च जिनेन्द्रैः समादिष्टाः || ८ जीवितं च मरणं च तयोराशंसे आकांक्षे, भयमिहपरलोकभयं इहलोकभयं हि क्षुत्पिपासापीडादिविषयं परलोकभयं - एवंविधदुर्धरानुष्ठानाद्विशिष्टं फलं परलोके भविष्यति न वेति । मित्रस्मृति: बाल्याद्यवस्थायां सहक्रीडितमित्रानुस्मरणं । निदानं भाविभोगाद्याकांक्षणं । एतानि पंचनामानि येषां ते तन्नामानः सल्लेखानायाः पंचातिचारा जिनेन्द्रैस्तीर्थ करैः समा-दिष्टा आगमे प्रतिपादिताः ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
९१.
www.jainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456