Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 429
________________ सल्लेखना-प्रतिमाधिकारः पंचमः। -dot-88-30अथ सागारिणाणुव्रतादिवत् सल्लेखनाप्यनुष्ठातव्येत्याहः उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे। धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥१॥ आर्या गणधरदेवादयः सल्लेखनामाहुः। किं तत् ? तनुविमोचनं शरीरत्यागः । कस्मिन् सति ? उपसर्गे तिर्यमनुष्यदेवकृते । निःप्रतीकारे प्रतीकारागोचरे । एतच्च विशेषणं दुर्भिक्षजरारुजानां प्रत्येक सम्बन्धनीयं । किमर्थं तद्विमोचनं ? धर्माय रत्नत्रयाराधनार्थ न पुनः परस्य ब्रह्महत्याद्यर्थे ॥ १॥ सल्लेखनायां भव्यैनियमेन प्रयत्नः कर्तव्योऽत आहः अन्तःक्रियाधिकरणं तपःफलं सकलदार्शनः स्तुवते । तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ॥ २॥ ___ सकलदर्शिनः स्तुवते प्रशंसन्ति । किं तत् ? तपःफलं तपसः फलं तपःफलं सफलं तप इत्यर्थः । कथंभूतं सत् ? अन्तःक्रियाधिकरणं अन्ते क्रिया संन्यासः तस्या अधिकरणं समाश्रयो यत्तपस्तत्फलं । यत एवं, तस्माद्यावद्विभवं यथाशक्ति समाधिमरणे प्रयतितव्यं प्रकृष्टो यत्नः कर्तव्यः ॥ २॥ - तत्र यत्नं कुर्वाण एवं कृत्वेदं कुर्यादित्याहः स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः । स्वजनं परिजनमपि च क्षान्त्वा क्षमयेत्प्रियैर्वचनैः॥३॥ १ सा च किं स्वरूपा कदाचानुष्ठातव्येत्याह इति ग. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456