SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सल्लेखना-प्रतिमाधिकारः पंचमः। -dot-88-30अथ सागारिणाणुव्रतादिवत् सल्लेखनाप्यनुष्ठातव्येत्याहः उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे। धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥१॥ आर्या गणधरदेवादयः सल्लेखनामाहुः। किं तत् ? तनुविमोचनं शरीरत्यागः । कस्मिन् सति ? उपसर्गे तिर्यमनुष्यदेवकृते । निःप्रतीकारे प्रतीकारागोचरे । एतच्च विशेषणं दुर्भिक्षजरारुजानां प्रत्येक सम्बन्धनीयं । किमर्थं तद्विमोचनं ? धर्माय रत्नत्रयाराधनार्थ न पुनः परस्य ब्रह्महत्याद्यर्थे ॥ १॥ सल्लेखनायां भव्यैनियमेन प्रयत्नः कर्तव्योऽत आहः अन्तःक्रियाधिकरणं तपःफलं सकलदार्शनः स्तुवते । तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ॥ २॥ ___ सकलदर्शिनः स्तुवते प्रशंसन्ति । किं तत् ? तपःफलं तपसः फलं तपःफलं सफलं तप इत्यर्थः । कथंभूतं सत् ? अन्तःक्रियाधिकरणं अन्ते क्रिया संन्यासः तस्या अधिकरणं समाश्रयो यत्तपस्तत्फलं । यत एवं, तस्माद्यावद्विभवं यथाशक्ति समाधिमरणे प्रयतितव्यं प्रकृष्टो यत्नः कर्तव्यः ॥ २॥ - तत्र यत्नं कुर्वाण एवं कृत्वेदं कुर्यादित्याहः स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः । स्वजनं परिजनमपि च क्षान्त्वा क्षमयेत्प्रियैर्वचनैः॥३॥ १ सा च किं स्वरूपा कदाचानुष्ठातव्येत्याह इति ग. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy