SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारेआलोच्य सर्वमेनः कृतकारितमनुमतं च निर्व्याजम् । आरोपयेन्महाव्रतमामरणस्थायि निश्शेषम् ॥४॥ युगलं । स्वयं क्षान्त्वा प्रियैर्वचनैः स्वजनं परिजनमपि क्षमयेत् । किं कृत्वा ? अपहाय त्यक्त्वा । कं ? स्नेहमुपकारके वस्तुनि प्रीत्यनुबन्धं । वैरमनुपकारके द्वेषानुबन्ध। संगं पुत्रस्त्र्यादिकं ममेदंमहमस्येत्यादिसम्बधं परिग्रहं बाह्याभ्यन्तरं । एतत्सर्वमपहाय शुद्धमना निर्मलचित्तः सन् क्षमयत् । तथा आरोपयेत् स्थापयेदात्मनि। किं तत् ? महाव्रतम् कथंभूतं ? आमरणस्थायि मरणपर्यन्तं निःशेषं च पंच प्रकारमपि। किं कृत्वा? आलोच्य । किं तत् ? एनो दोषं। किं तत् ? सर्व कृतकारितानुमतं च । स्वयं हि कृतं हिंसादिदोषं, कारितं हेतुभावेन, अनुमतमन्येन क्रियमाणं मनसा श्लावितं । एतत्सर्वमेनो निर्व्याजं दशालोचनादोषवजितं यथा भवत्येवमालोचयेत् । दश हि आलोचनादोषा भवन्ति । तदुक्तं- . आकप्पिय अणुमाणिय जंदिहें बाँदरं च सुहेमं च । छन्नं सद्दाँउलयं बहुजणमन्चत्त तस्सेवी ॥ १ ॥ इति । एवं विधामालोचनां कृत्वा महाव्रतमारोप्यैतत् कुर्यादित्याह: शोकं भयमवसादं क्लेदं कालुष्यमरतिमपि हित्वा। सत्त्वोत्साहमुदीय च मनः प्रसाधं श्रुतैरमृतैः ॥५॥ प्रसाद्यं प्रसन्न कार्य । किंतत् ? मनः । कैः ? श्रुतैरागमवाक्यैः । कथंभूतैः ? अमृतैः अमृतोपमैः संसारदुःखसन्तापापनोदकैरित्यर्थः । किं कृत्वा ? हित्वा । किं तदित्याह-शोकमित्यादि शोक-इष्टवियोगे तद्गुणशोचनं, भयं–क्षुत्पिपासादिपीडानिमित्तभिहलोकादिभयं वा, अवसादं विषादं खेदं वा, क्लेदं स्नेहं, कालुष्यं क्वचिद्विषये रागद्वेषपरणति । न केवलं प्रागुक्तमेव अपि तु अरतिमपि अप्रसक्तिमपि । न केवलमेतदेव कृत्वा किन्तु उदीर्य च प्रकाश्य च । कं ? सत्वोत्साहं सलेखनाकरणेऽकात. रत्वं ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy