________________
रत्नकरण्डकश्रावकाचारे
निमित्तं गृहीत्वा गच्छन् हस्तिना पादेन चूर्णयित्वा मृतः। पूजानुरागवशेनोपार्जितपुण्यप्रभावात् सौधर्मे महर्दिकदेवो जातः । अवधिज्ञानेन पूर्वभववृत्तान्तं ज्ञात्वा निजमुकुटाने भेकचिह्नं कृत्वा समागत्य वर्धमानस्वामिनं वन्दमानः श्रोणिकेन दृष्टः । ततस्तेन गौतमस्वामी भेकचिह्नेऽस्य किं कारणमिति पृष्टः तेन च पूर्ववत्तान्तः कथितः । तच्छत्वा सर्वे जनाः पूजातिशयविधाने उद्यताः संजाता इति ॥ ३० ॥
इदानीमुक्तप्तकारस्य वैयावृत्यस्यातीचारानाहःहरितपिधाननिधाने ह्यनादरास्मरणमत्सरत्वानि । ।
वैयावृत्त्यस्यैते व्यतिक्रमाः पञ्च कथ्यन्ते ॥ ३१ ॥ पंचैते आर्यापूर्वार्धकथिता वैयावृत्त्यस्य व्यतिक्रमाः कथ्यन्ते । तथा हि । हरितपिधाननिधाने हरितेन पद्मपत्रादिना पिधानं झंपनेमाहारस्य । तथा हरिते तस्मिन् निधानं स्थापनं । तस्य अनादरः प्रयच्छतोऽप्यादराभावः । अस्मरणमाहारादिदानमेतस्यां वेलायामेवंविधपात्राय दातव्यमिति दत्तमदत्तमिति वास्मृतेरभावः । मत्सरत्वमन्यदातृदानगुणासहिष्णुत्वमिति ॥ ३१॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां
चतुर्थः परिच्छेदः।
१ भव्यजना इति ख. २ आच्छादन इति ख.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org