Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 428
________________ रत्नकरण्डकश्रावकाचारे निमित्तं गृहीत्वा गच्छन् हस्तिना पादेन चूर्णयित्वा मृतः। पूजानुरागवशेनोपार्जितपुण्यप्रभावात् सौधर्मे महर्दिकदेवो जातः । अवधिज्ञानेन पूर्वभववृत्तान्तं ज्ञात्वा निजमुकुटाने भेकचिह्नं कृत्वा समागत्य वर्धमानस्वामिनं वन्दमानः श्रोणिकेन दृष्टः । ततस्तेन गौतमस्वामी भेकचिह्नेऽस्य किं कारणमिति पृष्टः तेन च पूर्ववत्तान्तः कथितः । तच्छत्वा सर्वे जनाः पूजातिशयविधाने उद्यताः संजाता इति ॥ ३० ॥ इदानीमुक्तप्तकारस्य वैयावृत्यस्यातीचारानाहःहरितपिधाननिधाने ह्यनादरास्मरणमत्सरत्वानि । । वैयावृत्त्यस्यैते व्यतिक्रमाः पञ्च कथ्यन्ते ॥ ३१ ॥ पंचैते आर्यापूर्वार्धकथिता वैयावृत्त्यस्य व्यतिक्रमाः कथ्यन्ते । तथा हि । हरितपिधाननिधाने हरितेन पद्मपत्रादिना पिधानं झंपनेमाहारस्य । तथा हरिते तस्मिन् निधानं स्थापनं । तस्य अनादरः प्रयच्छतोऽप्यादराभावः । अस्मरणमाहारादिदानमेतस्यां वेलायामेवंविधपात्राय दातव्यमिति दत्तमदत्तमिति वास्मृतेरभावः । मत्सरत्वमन्यदातृदानगुणासहिष्णुत्वमिति ॥ ३१॥ इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां चतुर्थः परिच्छेदः। १ भव्यजना इति ख. २ आच्छादन इति ख. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456