Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 427
________________ चतुर्थः परिच्छेदः। देवाधिदेवचरणे परिचरणं सर्वदुःखनिर्हरणम् ।। कामदुहि कामदाहिनि परिचिनुयादाहतो नित्यम् ॥ २९ ॥ आदृतः आदरयुक्तो नित्यं परिचिनुयात् पुष्टं कुर्यात् । किं ? परिचरणं पूजां । किंविशिष्टं ? सर्वदुःखनिर्हरणं निःशेषदुःखविनाशकं । क ? देवाधिदेवचरणे देवानामिन्द्रादीनामधिको वन्द्यो देवाधिदेवस्तस्य चरणः पादः तस्मिन् । कथं भूते ? कामदुहि वाञ्छितप्रदे । तथा कामदाहिनि कामविध्वंसके ॥२९॥ पूजामाहात्म्यं किं वापि केन प्रकटितमित्याशंक्याहःअर्हच्चरणसपर्यामहानुभावं महात्मनामवदत् । भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ॥ ३० ॥ भेको मण्डूकः प्रमोदमत्तो विशिष्टधर्मानुरागेण हृष्टः अवदत् कथितवान् । किमित्याह-अर्हदित्यादि, अर्हतश्चरणौ अर्हच्चरणौ तयोः सपर्या पूजा तस्याः महानुभावं विशिष्टं माहात्म्यं । केषामवदत् ? पहात्मनां भव्यजीवानां । केन कृत्वा ? कुसुमेनैकेन । क ? राजगृहे । . अस्य कथामगधदेशे राजगृहनगरे राजा श्रेणिकः श्रेष्ठी नागदतः श्रेष्ठिनी भवदत्ता । स नागदत्तः श्रेष्ठी सर्वदा मायायुक्तत्वान्मृत्वा निजप्राङ्गणवाप्यां भेको जातः । तत्र चागतामेकदा भवदत्ताश्रेष्ठिनीमालोक्य जातिस्मरो भूत्वा तस्याः समीपे आगत्य उपयुत्मुत्य चटितः । तया च पुन:पुनर्निर्धाटितो रटति, पुनरागत्य चटति च ततस्तया कोऽप्ययं मदीयो इष्टो भविष्यतीति सम्प्रधार्यावधिज्ञानी सुव्रतमुनिः पृष्टः । तेन च तद्वत्तान्ते कथिते गृहे नीत्वा • परमगौरवेणासौ धृतः । श्रेणिकमहाराजश्चैकदा वर्धमानस्वामिनं वैभारपर्वते समागतमाकर्ण्य आनन्दभेरी दापयित्वा महता विभवेन तं वन्दितुं गतः। श्रेष्ठिन्यादौ च गृहजने वन्दनाभक्त्यर्थं गते स भेकः प्रांगणवापीकमलं पूजा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456