Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 439
________________ पंचमः परिच्छेदः । तथा भैक्ष्याशनो भिक्षाणां समूहो भैक्ष्यं तदश्नीतौति भैक्ष्याशनः । किं कुर्वन् ? तपस्यन् तपः कुर्वन् । किं कृत्वा ? परिगृह्य गृहीत्वा । कानि ! व्रतानि । क! गुरूपकण्ठे गुरुसमीपे । किं कृत्वा ? इत्वा गत्वा किं तत् ! मुनिवनं सुन्याश्रमं । कस्मात् ? गृहतः ॥ २६ ॥ 1 तपः कुर्वन्नपि यो ह्यागमज्ञः सन्नेवं मन्यते तदा श्रेयो ज्ञाता भवतीत्याह; पापमरातिधर्मो बन्धुर्जीवस्य चेति निश्चिन्वन् । समयं यदि जानीते श्रेयो ज्ञाता ध्रुवं भवति ॥ २७ ॥ यदि समयं आगमं जानीते आगमज्ञो यदि भवति तदा ध्रुवं निश्चयेन श्रेयो ज्ञाता उत्कृष्ट ज्ञाता स भवति । किं कुर्वन् ? निश्चिन्वन् । कथमित्याह — पापमित्यादि — पापमेवारातिः शत्रुर्जीवस्यानेकापकारकत्वात् धर्मस्य बन्धुर्जीवस्यानेकोपकारकत्वादित्येवं निश्चिन्वन् ॥ २७ ॥ इदानीं शास्त्रार्थानुष्ठातुः फलं दर्शयन्नाह - - येन स्वयं वीतकलङ्कविद्यादृष्टिक्रियारत्नकरण्डभावं । नीतस्तमायाति पतीच्छयेव सर्वार्थसिद्धिस्त्रिषु विष्टपेषु ॥ २८ ॥ येन भव्येन स्वयं आत्मा स्वयं शब्दोऽत्रात्मवाचक: नीतः प्रापितः । कमित्याह — वीतेत्यादि, विशेष इतो गतो नष्टः कलंको दोषो यासां ताश्व ता विद्यादृष्टिक्रियाश्च ज्ञानदर्शनचारित्राणि तासां करण्डभावं तं भव्यं आयाति आगच्छति । कासौ ? सर्वार्थसिद्धिः धर्मार्थकाममोक्षल-' क्षणार्थानां सिद्धिर्निष्पत्तिः कर्त्री । कयेवायाति ? पतीच्छयेव स्वयम्बरविधानेच्छयेव । क ? त्रिषु विष्टपेषु त्रिभुवनेषु ॥ २८॥ रत्नकरण्डकं कुर्वतश्च मम यासौ सम्यक्त्वसम्पत्तिर्वृद्धिं गता सा एन्देव कुर्यादित्याह - सुखयतु सुखभूमिः कामिनं कामिनीव, सुतमिव जननी मां शुद्धशीला भुनक्तु । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456