Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
चतुर्थः परिच्छेदः। पर्वण्यष्टम्यां च ज्ञातव्यः प्रोषधोपवासस्तु ।
चतुरभ्यवहार्याणां प्रत्याख्यानं सदेच्छाभिः १६ ॥ प्रोषधोपवासः पुनर्ज्ञातव्यः । कदा पर्वणि चतुर्दश्यां न केवलं पर्वणि अष्टम्यां च । किं पुनः प्रोषधोपवासशब्दाभिधेयं ? प्रत्याख्यानं । केषां ? चतुरभ्यवहार्याणां चत्वारि अशनपानखाद्यलेह्यलक्षणानि तानि चाभ्यवहार्याणि च भक्षणीयानि तेषां । किं कस्यां सदैवाष्टम्यां चतुर्दश्यां च तेषां प्रत्याख्यानमित्याह-सदा सर्वकालं । काभिः इच्छाभितविधानवाञ्छाभिस्तेषां प्रत्याख्यानं न पुनर्व्यवहारकृतधरणकादिभिः ॥१६॥
उपवासदिने चोपोषितेन किं कर्तव्यमित्याहः7/पञ्चानां पापानामलंक्रियारम्भगन्धपुष्पाणाम् ।
सानाञ्जननस्यानामुपवासे परिहतिं कुर्यात् ॥ १७ ॥ उपवासदिने परिहृतिं परित्यागं कुर्यात् । केषां ? पंचानां हिंसादीनां । तथा अलंक्रियारंभगंधपुष्पाणां अलंक्रिया मण्डनं आरंभो वाणिज्यादिव्यापारः गन्धपुष्पाणामित्युपलक्षणं रागहेतून् ? गीतनृत्यादीनां । तथा स्नानंच अञ्जनं च वा नस्यश्च तेषाम् ॥ १७ ॥ एतेषां परिहारं कृत्वा किं तदिनेऽनुष्ठातव्येत्याहः
धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान् । ज्ञानध्यानपरो वा भवतूपवसन्नत
न्द्रालुः ॥१८॥ - उपवसन्नुपवासं कुर्वन् धर्मामृतं पिबतु धर्म एवामृतं सकलप्राणिनामाप्यायकत्वात् तत् पिबतु । काभ्यां ? श्रवणाभ्यां । कथंभूतः ? सतृष्णः साभिलाषः पिबन् न पुनरुपरोधादिवशात् । पाययेद्वान्यान् स्वयमेवावगतधर्मस्वरूपस्तुं अन्यतो धर्मामृतं पिबन् अन्यानविदिततत्स्वरूपान् पाययेत् तत् ज्ञानध्यानपरो भवतु ज्ञानपरो वा द्वादशानुप्रेक्षाधुपयोगनिष्ठः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456