Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
चतुर्थः परिच्छेदः ।
८१
यथार्थे अयमर्थो रुधिरं यथा मलिनमपवित्रं च वारि कर्तृ निर्मलं पवित्रं च धावते प्रक्षालयति तथा दानं पापं विमार्ष्टि ॥ २४ ॥
साम्प्रतं नवप्रकारेषु प्रतिग्रहादिषु क्रियमाणेषु कस्मात् किं फलं
सम्पद्यत इत्याह :
-
उच्चैर्गोत्रं प्रणतेर्भोगो दानादुपासनात्पूजा ।
भक्तेः सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु ॥ २५ ॥ तपोनिधिषु यतिषु । प्रणतेः प्रणामकरणादुच्चैर्गोत्रं भवति । तथा दानाद्दर्शनशुद्धिलक्षणाद्भोगो भवति । उपासनात् प्रतिग्रहणादिरूपात् सर्वत्र पूजा भवति । भक्तेर्गुणानुरागजनितान्तः श्रद्धाविशेषलक्षणायाः सुन्दररूपं भवति । स्तवनात् श्रुतजलधीत्यादिस्तुतिविधानात् सर्वत्र कीर्तिर्भवति ॥ २५ ॥
नन्वेवंविधं विशिष्टं फलं स्वल्पं दानं कथं सम्पादयतीत्याशंकाऽपनोदार्थमाहः-
शरीरभृतां
क्षितिगतमिव वटवीजं पात्रगतं दानमल्पमपि काले । फलतिच्छायाविभवं बहुफलमिष्टं शरीरभृताम् ॥ २६ ॥ अल्पमपि दानमुचितकाले पात्रगतं सत्पात्रे दत्तं संसारिणामिष्टं फलं बह्वनेक प्रकार सुंदररूपं भोगोपभोगादिलक्षणं फलति । कथंभूतं ? छायाविभवं छाया माहात्म्यं विभवं सम्पत् तौ विद्यते यत्र । अस्यैवार्थस्य समर्थनार्थ क्षितीत्यादिदृष्टान्तमाह-- क्षितिगतं सुक्षेत्रे निक्षिप्तं यथा अल्पमपि वटबीजं बहुफलं फलति । कथं ? छायाविभवं 1 छाया आतपनिरोधिनी तस्या विभवः प्राचुर्ये यथा भवत्येवं फलति ॥ २६ ॥ तच्चैवंविधफलसम्पादकं दानं चतुर्भेदं भवतीत्याहः -- आहारौषधयोरप्युपकरणावासयोश्च दानेन ।
वैयावृत्त्यं ब्रुवते चतुरात्मत्वेन चतुरस्राः || २७ ॥
रत्न ०- -६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456