Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 419
________________ चतुर्थः परिच्छेदः। ७९ तानि त्रीणि । अनादरास्मरणे च द्वे । तथा आवश्यकादौ हि बुभुक्षा पीडितत्वादनादरोऽनेकाग्रतालक्षणमस्मरणं भवति ॥ २० ॥ इदानी वैयावृत्यलक्षणशिक्षाव्रतस्य स्वरूपं प्ररूपयन्नाह; दानं वैयावृत्यं धर्माय तपोधनाय गुणनिधये । अनपेक्षितोपचारोपक्रियमगृहाय विभवेन ॥ २१ ॥ __ भोजनादिदानमपि वैयावृत्यमुच्यते । कस्मै दानं ! तपोधनाय तप एव धनं यस्य तस्मै । किंविशिष्टाय ? गुणनिधये गुणानां सम्यग्दर्शनादीना निधिराश्रयस्तस्मै । तथाऽगृहाय भावद्रव्यागाररहिताय । किमर्थ ? धर्माय धर्मनिमित्तं,। किं विशिष्टं तद्दानं ? अनपेक्षितोपचारोपक्रियं उपचार प्रतिदानं उपक्रिया मंत्रतंत्रादिना प्रत्युपकरणं ते न अपेक्षिते येन कथं । तद्दानं ! विभवेन विधिद्रव्यादिसम्पदा ॥ २१ ॥ न केवलं दानमेव वैयावृत्यमुच्यतेऽपितुःव्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् । वैयावृत्त्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥२२॥ ___ व्यापत्तयो विविधाब्याध्यादिजनिता आपदस्तासां व्यपनोदो विशेषेणापनोदः स्फेटनं यत्तद्वयावृत्यमेव । तथा पादयोः संवाहनं पादयोर्मर्दनं । कस्मात् ? गुणरागात् भक्तिवशादित्यर्थः-न पुनर्व्यवहारात् दृष्टफलापक्षणाद्वा । न केवलमेतावदेव वैयावृत्यं किन्तु अन्योऽपि संयमिनां देशसकलव्रतान्तं सम्बन्धी यावात् यत्परिमाण उपग्रह उपकारः स सर्वो वैयावृत्यमेवोच्यते ॥ २२ ॥ .. अथ किं दानमुच्यत इत्यत आहः नवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन । अपसूनारम्भाणामार्याणामिष्यते दानम् ॥ २३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456