Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 420
________________ रत्नकरण्डकश्रावकाचारे दानमिष्यते । कासौ ? प्रतिपत्तिः गौरवं आदरस्वरूपा । केषां ! आर्याणां सद्दर्शनादिगुणोपेतमुनीनां । किंविशिष्टानां ? अपसूनारम्भाणां सूनाः पंचजीवघातस्थानानि । तदुक्तम् खंडनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी । पंचसूना गृहस्थस्य तेन मोक्षं न गच्छति ॥ १३॥ खंडनी उलूखलं, पेषणी. घरट्ट, चुल्ली-चुलूकः, उदकुंभ:-उदकघटः, प्रमार्जनी-बोहारिका । सूनाश्चारंभाश्च कृष्यादयस्तेऽपगता येषां तेषां । केन प्रतिपत्तिः कर्तव्या ? सप्तागुणसमाहितेन. श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्यं । ____ यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ॥ इत्येतैः सप्तभिर्गुणैः समाहितेन तु दात्रा दानं दातव्यं । कैः कृत्वा ? नव पुण्यैः पडिगहमुच्चठ्ठाणं पादोदयमच्चणं च पणमं च । मणवपणकायसुद्धी एसणसुद्धी य नवविहं पुण्णं ॥ एतैर्नवभिः पुण्यैः पुण्योपार्जनहेतुभिः ॥ २३ ॥ इत्थं दीयमानस्य फलं दर्शयन्नाह; गृहकर्मणापि निचिंतं कर्म विमार्टि खलु गृहविमुक्तानाम् । अतिथीनां प्रतिपूजा रुधिरमलं धावते वारि ॥ २४ ।। विमार्टि स्फेटयति । खलु स्फुटं । किं तत् ? कर्म पापरूपं । कथंभूतं ? निचितमपि उपार्जितमपि पुष्टमपि वा । केन ? गृहकर्मणा सावद्यव्यापारेण । कोऽसौ कर्तृ ? प्रतिपूजा दानं । केषामपि ! अतिथीनां न विद्यते तिथिर्येषां तेषां । किं विशिष्टानां गृहविमुक्तानां गृहरहितानां अस्यैवार्थस्य समर्थनार्थ दृष्टान्तमाह-रुधिरमलं धावते वारि अलंशब्दो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456