________________
रत्नकरण्डकश्रावकाचारे
दानमिष्यते । कासौ ? प्रतिपत्तिः गौरवं आदरस्वरूपा । केषां ! आर्याणां सद्दर्शनादिगुणोपेतमुनीनां । किंविशिष्टानां ? अपसूनारम्भाणां सूनाः पंचजीवघातस्थानानि । तदुक्तम्
खंडनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी । पंचसूना गृहस्थस्य तेन मोक्षं न गच्छति ॥ १३॥ खंडनी उलूखलं, पेषणी. घरट्ट, चुल्ली-चुलूकः, उदकुंभ:-उदकघटः, प्रमार्जनी-बोहारिका । सूनाश्चारंभाश्च कृष्यादयस्तेऽपगता येषां तेषां । केन प्रतिपत्तिः कर्तव्या ? सप्तागुणसमाहितेन.
श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्यं । ____ यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ॥ इत्येतैः सप्तभिर्गुणैः समाहितेन तु दात्रा दानं दातव्यं । कैः कृत्वा ? नव पुण्यैः
पडिगहमुच्चठ्ठाणं पादोदयमच्चणं च पणमं च ।
मणवपणकायसुद्धी एसणसुद्धी य नवविहं पुण्णं ॥ एतैर्नवभिः पुण्यैः पुण्योपार्जनहेतुभिः ॥ २३ ॥ इत्थं दीयमानस्य फलं दर्शयन्नाह;
गृहकर्मणापि निचिंतं कर्म विमार्टि खलु गृहविमुक्तानाम् । अतिथीनां प्रतिपूजा रुधिरमलं धावते
वारि ॥ २४ ।। विमार्टि स्फेटयति । खलु स्फुटं । किं तत् ? कर्म पापरूपं । कथंभूतं ? निचितमपि उपार्जितमपि पुष्टमपि वा । केन ? गृहकर्मणा सावद्यव्यापारेण । कोऽसौ कर्तृ ? प्रतिपूजा दानं । केषामपि ! अतिथीनां न विद्यते तिथिर्येषां तेषां । किं विशिष्टानां गृहविमुक्तानां गृहरहितानां अस्यैवार्थस्य समर्थनार्थ दृष्टान्तमाह-रुधिरमलं धावते वारि अलंशब्दो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org