________________
चतुर्थः परिच्छेदः।
७९
तानि त्रीणि । अनादरास्मरणे च द्वे । तथा आवश्यकादौ हि बुभुक्षा पीडितत्वादनादरोऽनेकाग्रतालक्षणमस्मरणं भवति ॥ २० ॥ इदानी वैयावृत्यलक्षणशिक्षाव्रतस्य स्वरूपं प्ररूपयन्नाह;
दानं वैयावृत्यं धर्माय तपोधनाय गुणनिधये ।
अनपेक्षितोपचारोपक्रियमगृहाय विभवेन ॥ २१ ॥ __ भोजनादिदानमपि वैयावृत्यमुच्यते । कस्मै दानं ! तपोधनाय तप एव धनं यस्य तस्मै । किंविशिष्टाय ? गुणनिधये गुणानां सम्यग्दर्शनादीना निधिराश्रयस्तस्मै । तथाऽगृहाय भावद्रव्यागाररहिताय । किमर्थ ? धर्माय धर्मनिमित्तं,। किं विशिष्टं तद्दानं ? अनपेक्षितोपचारोपक्रियं उपचार प्रतिदानं उपक्रिया मंत्रतंत्रादिना प्रत्युपकरणं ते न अपेक्षिते येन कथं । तद्दानं ! विभवेन विधिद्रव्यादिसम्पदा ॥ २१ ॥ न केवलं दानमेव वैयावृत्यमुच्यतेऽपितुःव्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् ।
वैयावृत्त्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥२२॥ ___ व्यापत्तयो विविधाब्याध्यादिजनिता आपदस्तासां व्यपनोदो विशेषेणापनोदः स्फेटनं यत्तद्वयावृत्यमेव । तथा पादयोः संवाहनं पादयोर्मर्दनं । कस्मात् ? गुणरागात् भक्तिवशादित्यर्थः-न पुनर्व्यवहारात् दृष्टफलापक्षणाद्वा । न केवलमेतावदेव वैयावृत्यं किन्तु अन्योऽपि संयमिनां देशसकलव्रतान्तं सम्बन्धी यावात् यत्परिमाण उपग्रह उपकारः स
सर्वो वैयावृत्यमेवोच्यते ॥ २२ ॥ .. अथ किं दानमुच्यत इत्यत आहः
नवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन । अपसूनारम्भाणामार्याणामिष्यते दानम् ॥ २३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org