________________
'७८
रत्नकरण्डकश्रावकाचारे
अध्रुवाशरणे चैव भव एकत्वमेव च। अन्यत्वमशुचित्वं च तथैवानवसंवरौ ॥१॥ निर्जराच तथाः लोक बोधिदुर्लभधर्मता ।
द्वादशैता अनुप्रेक्षा भाषिता जिनपुंगवैः ॥२॥ आज्ञापायविपाकसंस्थानविचयलक्षणधर्मध्यानपरः तन्निष्ठः भवतु । किं विशिष्टः ? अतन्द्रालुः निद्रालस्यरहितः ॥ १८ ॥ अधुना प्रोषधोपवासस्तलक्षणं कुर्वन्नाह:
चतुराहारविसर्जनमुपवासः प्रोषधः सकृद्भुक्तिः। : स प्रोषधोपवासो यदुपोष्यारम्भमाचरति ॥ १९ ॥ चत्वारश्च ते आहाराश्चाशनपानखाद्यलेह्यलक्षणाः, अशनं हि भक्तमुद्गादि, पानं हि पेयमथितादि, खाद्यं मोदकादि, लेह्यं रब्रादि तेषां विसर्जनं परित्यजनमुपवासो विधीयते । प्रोषधः पुनः सकृद्भुक्तिधारणकदिने एकभक्तविधानं यत्पुनरुपोष्य उपवासं कृत्वा पारणकदिने आरंभ सकृद्भुक्तिमाचरत्यनुतिष्ठति स प्रोषधोपपासोऽभिधीयते इति ॥ १९ ॥ अथ केऽस्यातीचारा इत्याहः
ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे ।
यत्प्रोषधोपवासव्यतिलङ्घनपञ्चकं तदिदम् ॥ २०॥ प्रोषधोपवासस्य व्यतिलंघनपंचकमतिचारपंचकं । तदिदं पूर्वार्धप्रतिपादितप्रकारं । तथा हि । ग्रहणविसर्गास्तरणानि त्रीणि । कथं भूतानि ? अदृष्टमृष्टानि दृष्टं दर्शनं जन्तवः सन्ति न सन्तीति वा चक्षुषावलोकन सृष्ट मदुनोपकरणेन प्रमार्जनं तदुभौ न विद्यते येषु ग्रहाणादिषु तानि तथोक्तानि । तत्र बुभुक्षापीडितस्यादृष्टमृष्टस्याईदादिपूजोपकरणस्यात्मपरिधानाद्यर्थस्य च ग्रहणं भवति । तथा अदृष्टममृष्टायां भूमौ मूत्रपुरीषादेरुस्सर्गो भवति । तथा अदृष्टमृष्टे प्रदेशे आस्तरणं संस्तरोपक्रमो भवतीत्ये.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org