SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः। पर्वण्यष्टम्यां च ज्ञातव्यः प्रोषधोपवासस्तु । चतुरभ्यवहार्याणां प्रत्याख्यानं सदेच्छाभिः १६ ॥ प्रोषधोपवासः पुनर्ज्ञातव्यः । कदा पर्वणि चतुर्दश्यां न केवलं पर्वणि अष्टम्यां च । किं पुनः प्रोषधोपवासशब्दाभिधेयं ? प्रत्याख्यानं । केषां ? चतुरभ्यवहार्याणां चत्वारि अशनपानखाद्यलेह्यलक्षणानि तानि चाभ्यवहार्याणि च भक्षणीयानि तेषां । किं कस्यां सदैवाष्टम्यां चतुर्दश्यां च तेषां प्रत्याख्यानमित्याह-सदा सर्वकालं । काभिः इच्छाभितविधानवाञ्छाभिस्तेषां प्रत्याख्यानं न पुनर्व्यवहारकृतधरणकादिभिः ॥१६॥ उपवासदिने चोपोषितेन किं कर्तव्यमित्याहः7/पञ्चानां पापानामलंक्रियारम्भगन्धपुष्पाणाम् । सानाञ्जननस्यानामुपवासे परिहतिं कुर्यात् ॥ १७ ॥ उपवासदिने परिहृतिं परित्यागं कुर्यात् । केषां ? पंचानां हिंसादीनां । तथा अलंक्रियारंभगंधपुष्पाणां अलंक्रिया मण्डनं आरंभो वाणिज्यादिव्यापारः गन्धपुष्पाणामित्युपलक्षणं रागहेतून् ? गीतनृत्यादीनां । तथा स्नानंच अञ्जनं च वा नस्यश्च तेषाम् ॥ १७ ॥ एतेषां परिहारं कृत्वा किं तदिनेऽनुष्ठातव्येत्याहः धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान् । ज्ञानध्यानपरो वा भवतूपवसन्नत न्द्रालुः ॥१८॥ - उपवसन्नुपवासं कुर्वन् धर्मामृतं पिबतु धर्म एवामृतं सकलप्राणिनामाप्यायकत्वात् तत् पिबतु । काभ्यां ? श्रवणाभ्यां । कथंभूतः ? सतृष्णः साभिलाषः पिबन् न पुनरुपरोधादिवशात् । पाययेद्वान्यान् स्वयमेवावगतधर्मस्वरूपस्तुं अन्यतो धर्मामृतं पिबन् अन्यानविदिततत्स्वरूपान् पाययेत् तत् ज्ञानध्यानपरो भवतु ज्ञानपरो वा द्वादशानुप्रेक्षाधुपयोगनिष्ठः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy