________________
रत्नकरण्डकश्रावकाचारे
दंशमशकानां पीडाकाारणां तत्परिसमन्तात् सहनं तत्परीषहस्तं, न केवलं तमेव अपि तु उपसर्गमपि च देवमनुष्यतिर्यकृतं ॥ १३ ॥ . तं चाधिकुर्वाणाः सामायिके स्थिताः एवं विधं संसारमोक्षयोः स्वरूपं चिन्तयेयुरित्याह;
अशरणमशुभमनित्यं दुःखमनात्मानमावसामि भवम् । .. मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके ॥ १४ ॥
तथा सामायिक स्थिता ध्यायन्तु । कं ? भवं स्वोपात्तकर्मवशाच्चतुगतिपर्यटनं । कथंभूतं ? अशरणं न विद्यते शरणमपापपरिरक्षकं यत्र । अशुभमशुभकारणप्रभवत्वादशुभकार्यकारित्वाचाशुभं । तथाऽनित्यं चतसृष्वपि गतिषु पर्यटनस्य नियतकालतयाऽनित्यत्वादनित्यं । तथा दुःखहेतुत्वादुःखं । तथानात्मानमात्मस्वरूपं न भवति । एवं विधं भवमावसामि एवं विधे तिष्ठामीत्यर्थः । यद्येवं विधः संसारस्तर्हि मोक्षः कीदृश इत्याह-मोक्षस्तद्विपरीतात्मा तस्मादुक्तभवस्वरूपाद्विपरीतस्वरूपतः शरणशुभादि स्वरूपः, इत्येवं ध्यायन्तु चिन्तयन्तु सामायिके स्थिताः ॥ १४ ॥ साम्प्रतं सामायिकस्यातीचारानाह;
वाक्कायमानसानां दुःप्रणिधानान्यनादरस्मरणे ।
सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन ॥ १५ ॥ व्यज्यन्ते कथ्यन्ते । के ते ? अतिगमा अतिचाराः । कस्य ? सामयिकस्य । कति ? पंच । कथं ? भावेन परमार्थेन । तथा हि । वाक्कायमानसानां दुष्प्रणिधानमित्येतानि त्रीणि । अनादरोऽनुत्साहः । अस्मरणमनैकाग्रम् ॥ १५॥
अथेदानीं प्रोषधोपवासलक्षणं शिक्षाव्रतं व्याचक्षाणः प्राहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org