________________
चतुर्थः परिच्छेदः।
७५
चेतव्यं वृद्धि नेतव्यं । किं ? सामायिकं । कदा ? प्रतिदिवसमपि न पुनः कदाचित् पर्व दिवसे एव । कथं ? यथावदपि प्रतिपादितस्वरूपानतिक्रमेणैव । कथंभूतेन ? अनलसेनाऽऽलास्यरहितेन उद्यतेनेत्यर्थः । तथाऽवधानयुक्तेनैकाप्रचेतसा । कुतस्तदित्थं परिचेतव्यं ? व्रतपंचकपरिपूरणकारणं यतः व्रतानां हि सविरत्यादीनां पंचकं तस्य परिपूरणं परिपूरणत्वं महाव्रतरूपत्वं तस्य कारणं यथोक्तसामायिकानुष्ठानकाले हि. अणुव्रतान्यपि महाव्रतत्वं प्रतिपद्यन्तेऽतस्तत्कारणं ॥ ११॥ एतदेव समर्थयमानः प्राहः
सामयिके सारम्भाः परिग्रहा नैव सन्ति सर्वेऽपि ।
चेलोपसृष्टमुनिरिव गृही तदा याति यतिभावं ॥१२॥ सामयिके सामायिकावस्थायां । नैव सन्ति न विद्यन्ते । के ! परिग्रहाः सङ्गाः । कथंभूताः ? सारम्भाः कृष्याद्यारम्भसहिताः। कति ! सर्वेऽपि “ बाह्याभन्तराश्चेतनेतरादिरूपा" वा । यत एव ततो याति प्रतिपद्यते । कं ? यतिभावं यतितत्वं । कोऽसौ ? गृही श्रावकः । कदा ? सामायिकावस्थायां । कइव ? चेलोपसृष्टमुनिरिव चेलेन वस्रेण उपसृष्टा उपसर्गवशाद्वेष्टितः स चासौ मुनिश्च स इव तद्वत् ॥ १२ ॥ तथा सामायिके स्वीकृतवन्तो ये तेऽपरमपि किं कुर्वन्तीत्याहः
शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधराः। सामायिक प्रतिपन्ना अधिकुर्वीरनचलयोगाः ॥१३॥ अधिकुरिन् सहेरनित्यर्थः । के ते? सामयिकं प्रतिपन्नाः सामायिक स्वीकृतवन्तः । किं विशिष्टाः सन्तः ? अचलयोगाः स्थिरसमाधयः प्रतिज्ञातानुष्ठानापरित्यागिनो वा । तथा मौनधरास्तत्पीडायां सत्यामपि कीबादिवचनानुच्चारकाः । कमधिकुरिन्नित्याह-शीतेत्यादि शीतोष्ण.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org