SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे चापि उपविष्टकायोत्सर्गमपि च स्थानमूर्ध्वकायोत्सर्ग उपवेशनं वा सामान्येनोपविष्टावस्थानमपि समयं जानन्ति ॥ ८॥ एवं विधे समये भवत् यत्सामायिकं पंचप्रकारपापात् साकल्येन व्यावृत्तिस्वरूपं तस्योत्तरोत्तरा वृद्धिः कर्तव्येत्याहः एकान्ते सामयिक निर्व्याक्षेपे वनेषु वास्तुषु च । . चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधिया ॥९॥ परिचेतव्यं वृद्धि नेतव्यं । किं तत् ? सामायिकं । क ? एकान्ते स्त्रीपशुपाण्डुविवर्जिते प्रदेशे । कथंभूते ? निर्व्याक्षेपे चित्तव्याकुलतारहिते शीतवातदेशमशकादिबाधावर्जित इत्यर्थः इत्थंभूते एकान्ते । क ? वनेषु अटवीषु, वास्तुषु च गृहेषु, चैत्यालयेषु च अपिशब्दागिरिगव्हरादिपरिग्रहः । केन चेतव्यं ? प्रसन्नधिया प्रसन्ना अविक्षिप्ता धीर्यस्यात्मनस्तेन अथवा प्रसन्नासौ धीश्च तया कृत्वा आत्मना परिचेतव्यमिति ॥९॥ इत्थंभूतेषु स्थानेषु कथं तत्परिचेतव्यमित्याहः व्यापारवैमनस्याद्विनिवृत्त्यामन्तरात्मविनिवृत्त्या ॥ सामयिकं बधीयादुपावासे चैकभुक्ते वा ॥ १० ॥ बन्नीयादनुतिष्ठेत् । किं तत् ? सामयिकं । कस्यां ? विनिवृत्त्या । कस्मात् ? व्यापारवैमनस्यात् व्यापार:: कायादिचेष्टा वैमनस्यं मनोव्यप्रता चित्तकालुष्यं वा तस्माद्विनिवृत्यामपि सत्यां अन्तरात्मविनिवृत्या कृत्वा तद्वनीयात् अन्तरात्मनो विकल्पश्च विशेषेण विनिवृत्या । कस्मिन् सति तस्यां तद्वनीयात् : उपवासे चैकभुक्ते वा ॥ १० ॥ इत्थं भूतं तत्कि कदाचित्परिचेतव्यमन्यथा चेत्यत्राहः सामयिकं प्रतिदिवसं यथावदप्यनलसेन चेतव्यं । व्रतपञ्चकपरिपूरणकारणमवधानयुक्तेन ॥ ११ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy