Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 414
________________ रत्नकरण्डकश्रावकाचारे चापि उपविष्टकायोत्सर्गमपि च स्थानमूर्ध्वकायोत्सर्ग उपवेशनं वा सामान्येनोपविष्टावस्थानमपि समयं जानन्ति ॥ ८॥ एवं विधे समये भवत् यत्सामायिकं पंचप्रकारपापात् साकल्येन व्यावृत्तिस्वरूपं तस्योत्तरोत्तरा वृद्धिः कर्तव्येत्याहः एकान्ते सामयिक निर्व्याक्षेपे वनेषु वास्तुषु च । . चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधिया ॥९॥ परिचेतव्यं वृद्धि नेतव्यं । किं तत् ? सामायिकं । क ? एकान्ते स्त्रीपशुपाण्डुविवर्जिते प्रदेशे । कथंभूते ? निर्व्याक्षेपे चित्तव्याकुलतारहिते शीतवातदेशमशकादिबाधावर्जित इत्यर्थः इत्थंभूते एकान्ते । क ? वनेषु अटवीषु, वास्तुषु च गृहेषु, चैत्यालयेषु च अपिशब्दागिरिगव्हरादिपरिग्रहः । केन चेतव्यं ? प्रसन्नधिया प्रसन्ना अविक्षिप्ता धीर्यस्यात्मनस्तेन अथवा प्रसन्नासौ धीश्च तया कृत्वा आत्मना परिचेतव्यमिति ॥९॥ इत्थंभूतेषु स्थानेषु कथं तत्परिचेतव्यमित्याहः व्यापारवैमनस्याद्विनिवृत्त्यामन्तरात्मविनिवृत्त्या ॥ सामयिकं बधीयादुपावासे चैकभुक्ते वा ॥ १० ॥ बन्नीयादनुतिष्ठेत् । किं तत् ? सामयिकं । कस्यां ? विनिवृत्त्या । कस्मात् ? व्यापारवैमनस्यात् व्यापार:: कायादिचेष्टा वैमनस्यं मनोव्यप्रता चित्तकालुष्यं वा तस्माद्विनिवृत्यामपि सत्यां अन्तरात्मविनिवृत्या कृत्वा तद्वनीयात् अन्तरात्मनो विकल्पश्च विशेषेण विनिवृत्या । कस्मिन् सति तस्यां तद्वनीयात् : उपवासे चैकभुक्ते वा ॥ १० ॥ इत्थं भूतं तत्कि कदाचित्परिचेतव्यमन्यथा चेत्यत्राहः सामयिकं प्रतिदिवसं यथावदप्यनलसेन चेतव्यं । व्रतपञ्चकपरिपूरणकारणमवधानयुक्तेन ॥ ११ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456