Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 408
________________ रत्नकरण्डकश्रावकाचारेयदनिष्टं तदव्रतयेद्यच्चानुपैसेव्यमेतदपि जह्यात् । अभिसन्धिकृता विरतिर्विषयायोग्याव्रतं भवति ॥४०॥ 'यदनिष्टं उदरशूलादिहेतुतया प्रकृतिसात्म्यकं यन्न भवति 'तब्रतयेत्' व्रतं निवृत्ति कुर्यात् त्यजेदित्यर्थः । न केवलमेतदेव व्रतयेदपितु 'यच्चानुपसेव्यमेतदपि जह्यात्' यच्च यदपि गोमूत्र-करम्दुग्ध-शंखचूर्ण-ताम्बूलोद्गललाला-मूत्र-पुरीष-श्लेष्मादिकमनुपसेव्यं प्रासुकमपि शिष्टलोकानां स्वादनायोग्यं एतदपि जह्यात् व्रतं कुर्यात् । कुत एतदित्याह-अभिसन्धी त्यादि अनिष्टया अनुपसेव्यतया च व्यावृत्तेर्योग्याविषयादभिसन्धिकृताऽ भिप्रायपूर्विका या विरतिः सा यतो व्रतं भवति ॥ ४० ॥ तच्च द्विधा भिद्यत इतिः नियमो यमच विहितौ द्वधा भोगोपभोगसंहारे । नियमः परिमितकालो यावजीवं यमो ध्रियते ॥४१॥ भोगोपभोगसंहारात् भोगोपभोगयोः संहारात् परिमाणात् तमाश्रित्य । द्वधा विहितौ द्वाभ्यां प्रकाराभ्यां द्वेधा व्यवस्थापितौ । कौ ? नियमो यमश्चेत्येतो। तत्र को नियमः कश्च यम इत्याह-नियमः परिमितकालो वक्ष्यमाणः परिमितः कालो यस्य भोगोपभोगसंहारस्य स नियमः। यमश्च यावज्जीवं ध्रियते। तत्संहारलक्षणनियमं दर्शयन्नाहः भोजनवाहनशयनस्नानपवित्राङ्गरागकुसुमेषु । ताम्बूलवसनभूषणमन्मथसंगीतगीतेषु ॥ ४२ ॥ १ शातवाहनाभरणादिषु एतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यं । २ न ह्यसति अभिसन्धिनियमे व्रतमितीष्टानामपि चित्रवस्त्रविकृतवेशाभरणादीनामनुपसेव्यानां परित्यागः कार्यः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456