SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारेयदनिष्टं तदव्रतयेद्यच्चानुपैसेव्यमेतदपि जह्यात् । अभिसन्धिकृता विरतिर्विषयायोग्याव्रतं भवति ॥४०॥ 'यदनिष्टं उदरशूलादिहेतुतया प्रकृतिसात्म्यकं यन्न भवति 'तब्रतयेत्' व्रतं निवृत्ति कुर्यात् त्यजेदित्यर्थः । न केवलमेतदेव व्रतयेदपितु 'यच्चानुपसेव्यमेतदपि जह्यात्' यच्च यदपि गोमूत्र-करम्दुग्ध-शंखचूर्ण-ताम्बूलोद्गललाला-मूत्र-पुरीष-श्लेष्मादिकमनुपसेव्यं प्रासुकमपि शिष्टलोकानां स्वादनायोग्यं एतदपि जह्यात् व्रतं कुर्यात् । कुत एतदित्याह-अभिसन्धी त्यादि अनिष्टया अनुपसेव्यतया च व्यावृत्तेर्योग्याविषयादभिसन्धिकृताऽ भिप्रायपूर्विका या विरतिः सा यतो व्रतं भवति ॥ ४० ॥ तच्च द्विधा भिद्यत इतिः नियमो यमच विहितौ द्वधा भोगोपभोगसंहारे । नियमः परिमितकालो यावजीवं यमो ध्रियते ॥४१॥ भोगोपभोगसंहारात् भोगोपभोगयोः संहारात् परिमाणात् तमाश्रित्य । द्वधा विहितौ द्वाभ्यां प्रकाराभ्यां द्वेधा व्यवस्थापितौ । कौ ? नियमो यमश्चेत्येतो। तत्र को नियमः कश्च यम इत्याह-नियमः परिमितकालो वक्ष्यमाणः परिमितः कालो यस्य भोगोपभोगसंहारस्य स नियमः। यमश्च यावज्जीवं ध्रियते। तत्संहारलक्षणनियमं दर्शयन्नाहः भोजनवाहनशयनस्नानपवित्राङ्गरागकुसुमेषु । ताम्बूलवसनभूषणमन्मथसंगीतगीतेषु ॥ ४२ ॥ १ शातवाहनाभरणादिषु एतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यं । २ न ह्यसति अभिसन्धिनियमे व्रतमितीष्टानामपि चित्रवस्त्रविकृतवेशाभरणादीनामनुपसेव्यानां परित्यागः कार्यः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy