SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। ६९ ... अद्य दिवा रजनी वा पक्षो मासस्तथ रयनं वा। . इति कालपरिच्छित्त्या प्रत्याख्यानं भवेनियमः॥४३॥ - युगलं । नियमो भवेत् । किंतत् ? प्रत्याख्यानं । कया ? कालपरिच्छित्या । तामेव कालपरिच्छितिं दर्शयन्नाह–अद्येत्यादि अद्येति प्रवर्तमानघटिकाप्रहरादिलक्षणकालपरिच्छित्या प्रत्याख्यानं । तथा दिवेति । रजनि रात्रिरिति वा । पक्ष इति वा । मास इति वा । ऋतुरिति वा मासद्वयं । अयनमिति वा षण्मासा । इत्येवं कालपरिच्छित्या प्रत्याख्यानं । केष्वित्याह-भोजनेत्यादि भोजनं च, वाहनं च घोटकादि, शयनं च पल्यङ्कादि, स्नानं च, पवित्राङ्गरागश्च पवित्रश्चासावङ्गरागश्च कुंकुमादिविलेपनं । उपलक्षणमेतदञ्जनतिलकादीनां पवित्रविशेषणादोषापनयनार्थमौषधाद्यङ्गरागो निरस्तः । कुसुमानि च तेषु विषयभूतेषु । तथा ताम्बूलं च वसनं च वस्त्रं भूषणं च कटकादि मन्मथश्च कामसेवा संगीतं च गीतनृत्यवादित्रत्रयं गीतं च केवलं नृत्यवाद्यरहितं तेषु च विषयेषु अद्येत्यादिरूपं कालपरिच्छित्या यत्प्रत्याख्यानं स नियम इति व्याख्यातम् ॥ ४२-४३ ॥ भोगोपभोगपरिमाणस्येदानीमतीचारानाहःविषयविषतोऽनुपेक्षानुस्मृतिरतिलौल्यमति तृषाऽनुभवो । भोगोपभोगपरिमा व्यतिक्रमा पञ्च कथ्यन्ते ॥४४॥ - भोगोपभोगपरिमाणं तस्य व्यतिक्रमा अतीचारा पंच कथ्यन्ते । के ते इत्याह विषयेत्यादि विषय एव विषं प्राणिनां दाहसंतापादिविधायित्वात् तेषु ततोऽनुपेक्षा उपेक्षायास्त्यागस्याभावोऽनुपेक्षा आदर इत्यर्थः । विषयवेदना प्रतिकारार्थो हि विषयानुभवस्तस्मात्तत्प्रतीकारे जातेऽपि पुनर्यत्संभाषणालिंगनाद्यादर सोऽत्यासक्तिजनकत्वादतीचारः। अनुस्मृ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy