________________
७
रत्नकरण्डकश्रावकाचारे
तिस्तदनुभवात्प्रतीकारे जातेऽपि पुनर्विषयाणां सौंद ( क ) यसुखसाधनत्वादनुकरणमत्यासक्तिहेतुत्वादतीचारः । अतिलौलमतिगृद्धिस्तत्प्रतीकार जातेऽपि पुनः पुनस्तुदनुभवाकांक्षेत्यर्थः । अतितृषा भाविभोगोपभोगादेरतिगृह्या प्राप्त्याकांक्षा । अत्यनुभवो नियतकालेऽपि यदा भोगोपभोगोऽ नुभवति तदाऽत्यासक्त्यानुभवति न पुनर्वेदनाप्रतीकारतयाऽतोऽतीचारः ॥ ४४॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां तृतीयः परिच्छेदः ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org