SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ शिक्षाव्रताधिकारश्चतुर्थः। साम्प्रतं शिक्षाव्रतस्वरूपप्ररूपणार्थमाहः देशावकाशिकं वा सामायिक प्रोषधोपवासो वा । वैयावृत्यं शिक्षात्रतानि चत्वारि शिष्टानि ॥ १॥ शिष्टानि प्रतिपादितानि । कानि ? शिक्षाव्रतानि । कति ? चत्वारि कस्मात् ! देशावकाशिकमित्यादिचतुःप्रकारसद्भावात् । वाशब्दोऽत्र परस्परप्रकारसमुच्यये । देशावकाशिकादीनां लक्षणं स्वयमेवाने ग्रन्थकारः करिष्यति ॥ १॥ तत्र देशावकाशिकस्य तावलक्षणं: देशावकाशिकं स्यात्कालपरिच्छेदनेन देशस्य । प्रत्यहमणुव्रतानां प्रतिसंहारो विशालस्य ॥२॥ देशावकाशिकं देशे मर्यादीकृतदेशमध्येऽपि स्तोकप्रदेशेऽवकाशो नियतकालमतस्थानं सोऽस्यास्तीति देशावकाशिकं शिक्षाव्रतं स्यात् । कोऽसौ ? प्रतिसंहारो व्यावृत्तिः। कस्य ? देशस्य । कथंभूतस्य ? विशालस्य बहोः। केन ? कालपरिच्छेदनेन दिवसादिकालमर्यादा । कथं ! प्रत्यहं प्रतिदिनं । केषां ? अणुव्रतानां अणूनि सूक्ष्माणि व्रतानि येषां तेषां श्रावकाणामित्यर्थः ॥ २ ॥ अथ देशावकाशिकस्य का मर्यादा इत्याह;-- गृहहारिग्रामाणां क्षेत्रनदीदावयोजनानां च । देशावकाशिकस्य स्मरन्ति सीमा तपोवृद्धाः ॥३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy