SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे 66 तपोवृद्धाश्चिरन्तनाचार्या गणधरदेवादयः । सीम्नां स्मरन्ति मर्यादा: प्रतिपाद्यन्ते । सीम्नामित्यत्र “ स्मृत्यर्थदयीशां कर्म " इत्यनेन षष्ठी । केषां सीमाभूतानां ? गृहहारिग्रामाणां हारिः कटकं । तथा क्षेत्रनंदी दावयोजनानां च दावो वनं । कस्यैतेषां सीमाभूतानां देशावकाशिकस्य देशनिवृत्तिव्रतस्य । ७२ एवं द्रव्यावधि योजनावधिं प्रतिपादयन्नाह :संवत्सरमृतुरयनं मासचतुर्मासपक्षमृक्षं च । देशावकाशिकस्य प्राहुः कालावधिं प्राज्ञाः ॥ ४ ॥ देशावकाशिकस्य कालावधिं कालमर्यादं प्राहुः । प्राज्ञः गणधरदेवादयः । किं तदित्याह संवत्सरमित्यादि संवत्सरं यावदेतावत्येव देशे मयाऽवस्थातव्यं । तथा ऋतुरयनं वा यावत् । तथा मासचतुर्मासपक्षं यावत् । ऋक्षं च चन्द्रमुक्त्या आदित्यमुक्त्या वा इदं नक्षत्रं यावत् एवं देशावकाशिकवते कृते सति ततः परतः किं स्यादित्याह : - सीमन्तानां परतः स्थूलेतरपञ्चपापसंत्यागात् । देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ।। ५ ।। प्रसाध्यन्ते व्यवस्थाप्यन्ते । कानि ? महाव्रतानि । केन ? देशावकाशिकेन च न केवलं दिग्विरत्यापि देशावकाशिकेनापि । कुत: ? स्थूलेतरपंचपापसंत्यागात् स्थूळेतराणि च तानि हिंसादिलक्षणपंचपापानि च तेषां सम्यक् त्यागं । क ? सीमान्तानां परत: देशावकशिकत्रतस्य सीमाभूता ये 'अन्ताधर्मा' गृहादयः संवत्सरादिविशेषाः तेषां वा अन्ताः पर्यन्तास्तेषां परत: यस्मिन् भागे इदानीं तदतिचारान् दर्शयन्नाह :प्रेषणशद्वानयनं रूपाभिव्यक्तिपुद्गलक्षेपौ । देशावकाशिकस्य व्यपदिश्यन्तेऽत्ययाः पञ्च || ६ || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy