SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ तृतीया परिच्छेदः। ६७ 'पंचेन्द्रियाणामय' पंचेन्द्रिणां विषयः। 'भुक्त्वा' परिहातव्य,स्ताज्यः स भोगोऽशनपुष्पगंधविलेपनप्रभृतिः । यः पूर्व भुक्त्वा पुनश्च भोक्तव्यः स उपभोगो वसनाभरणप्रभृति वसनं वस्त्रम् ॥ ३७॥ मद्यादिभोगरूपोऽपि त्रसजन्तुवधहेतुत्वादणुव्रतधारिभिस्त्याज्य इत्याहः सहतिपरिहरणार्थ क्षौद्रं पिशितं प्रमादपरिहतये । मद्यं च बर्जनीयं जिनचरणौ शरणमुपयातैः ॥ ३८ वर्जनीयं । किं तत् ? 'क्षौद्रं' मधु । तथा 'पिशितं' । किमर्थं ! 'त्रसहतिपरिहरणार्थ त्रसानां द्वीन्द्रियादीनां हतिर्वध'स्तत्परिहरणार्थे । तथा 'मद्यं च' वर्जनीयं । किमर्थं ? 'प्रमादपरिहृतये' माता भार्येति विवेकाभावः प्रमादस्य परिहृतये परिहारार्थे । कैरेतद्वर्जनीयं ! शरणमुपयातैः शरणमुपगतैः । को ? जिनचरणौ श्रावकैस्तत्याज्यमित्यर्थः ॥ ३८ ॥ तथैतदपि तैस्त्याज्यमित्याह, अल्पफलबहुविधातान्मूलकमाणि श्रङ्गवेराणि । नवनीतनिम्बकुसुमं कैतकमित्येवमवहेयम् ॥ ३९ ॥ 'अवहेयं' त्याज्यं । किं तत् ? 'मूलकं' । तथा 'शृंगवेराणि' आईकाणि । किं विशिष्टानि ? 'आर्द्राणि' अपक्कानि । तथा नवनीतनिम्बकुसुममित्युपलक्षणं सकलकुसुमविशेषाणां तेषां कैतकं केतक्या इदं कैतकं गुधरा इत्येवं, इत्यादि सर्वमवहेयं कस्मात् ' अल्पफलबहुविघातात् ' • अल्पं फलं यस्यासावल्फलः बहूनां त्रसजीवानां विघातो विनाशो बहुविघातः अल्पफलश्चासौ विघातश्च तस्मात् ॥ ३९ ॥ - प्रासुकमपि यदेवंविधं तत्त्याज्यमित्याह;.. १ केतक्यर्जुनपुष्पादीनि बहुजन्तुयोनिस्थानानि शृङ्गवेरमूलकहरिद्रानिम्वकुसु मादीन्यनन्तकायव्यपदेशााणि एतेषामुपसेवने बहुघातोऽल्पफलमिति तत्परिहारः श्रेयान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy