Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
रत्नकरण्डकश्रावकाचारे___ व्यतीतयोऽतीचारा भवन्ति । कस्य ! अनर्थदण्डकृद्विरते: अनर्थ निष्प्रयोजनं दण्डं दोषं कुर्वन्तित्यनर्थदंडकृतः पापोपदेशादयस्तेषांविरतिर्यस्य तस्य । कति ? पंच । कथमित्याह-कन्दर्पत्यादि रागोवेकात्प्रहासमिश्रो भण्डिमाप्रधानो वचनप्रयोगः कंदर्पः, प्रहासो भंडिमावचनं भंडिमोपेतकायव्यापारप्रयुक्तं कौतुकुच्यं, धाष्टर्यप्रायं बहुप्रलापितत्वं मौखये, यावतार्थेनोपभोगोपरिभोगौ भवतस्ततोऽधिकस्य करणमतिप्रसाधनमेतानि चत्वारि, असमीक्ष्याधिकरणं पंचमं असमीक्ष्य प्रयोजनमपर्यालोच्य आधिक्येन कार्यस्य करणमसमीक्ष्याधिकरणं ॥३५॥ - साम्प्रतं भोगोपभोगपरिमाणलक्षणं गुणवतमाख्यातुमाह;
अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम् ।
अर्थवतामप्यवधौ रागरतीनां तनूकृतये ॥ ३६ ॥ 'भोगोपभोगपरिमाणं' भवति । किं तत् ? 'यत्परिसंख्यान' परिगणनं । केषां ? 'अक्षार्थाना'मिन्द्रियविषयाणां । कथंभूतानामपि तेषां ? 'अर्थव. तामपि' सुखादिलक्षणप्रयोजनसंपादकानामपि अथवाऽर्थवतां सग्रन्थानामपि श्रावकाणां । तेषां परिसंख्यानं किमर्थ ? 'तनूकृतये' कृशतरत्वकरणार्थ । कासां ? 'रागरतीनां' रागेण विषयेषु रागोद्रेकेण रतयः आस तयस्तासां । कस्मिन् सति ? अवधौ विषयपरिमाणे ॥ ३६॥ अथ को भोगः कश्चोपभोगो यत्परिमाणं क्रियते इत्याशंक्याह;
भुक्त्वा परिहातव्यो भोगो भुक्त्वा पुनश्च भोक्तव्यः । उपभोगोऽशनवसनप्रभृतिः पञ्चेन्द्रियो विषयः ॥३७॥
१ भोगसंख्यानं पंचविधं त्रसघातप्रमादबहुवधानिष्टानुपसेव्यविषयभेदात् । २ मधुमांसं सदा परिहर्तव्यं त्रसघातं प्रति निवृत्तचेतसा । ३ मद्यमुपसेव्यमानं कार्याकार्यविवेकसंमोहकरमिति तद्वर्जनं प्रमादविरहाय अनुष्ठेयं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456