Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 405
________________ तृतीयः परिच्छेदः। 'दुःश्रुतिर्भवति' । कासौ 'श्रुतिः श्रवणं । केषां 'अवधीनां ' शास्त्राणां किं कुर्वतां 'कलुषयतां' मलिनयतां । किं तत् 'चेतः' क्रोधमानमायालोभावाविष्टं चित्तं कुर्वतामित्यर्थः । कैः कृत्वेत्याह-'आरंभेत्यादि आरभश्च कृष्यादिः संगश्च परिग्रहः तयोः प्रतिपादनं वार्ता नीती विधीयते "कृषिः पशुपाल्यं वाणिज्यं च वार्ता” इत्यभिधानात्, साहसं चात्यद्भुतं कर्म वीरकथायां प्रतिपाद्यते, मिथ्यात्वं चाद्वैतक्षणिकमित्यादिप्रमाणविरुद्धार्थप्रतिपादकशास्त्रेण क्रियते, द्वेषश्च विद्वेषीकरणादिशास्त्रेणाभिधीयतेरागश्च वशीकरणादिशास्त्रेण विधीयते, मदश्च वर्णानां ब्राह्मणो गुरुरित्यादिग्रन्थाज्ञायते, मदनश्च रतिगुणविलासपताकादिशास्त्रादुत्कृष्टो भवति तैः एतैः कृत्वा चेतः कलुषयतां शास्त्राणां श्रुतिर्दुश्रुति भवति॥३३॥ अधुना प्रमादचर्यास्वरूपं निरूपयन्नाह;क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदं । सरणं सारणमपि च प्रमादचयों प्रभाषन्ते ॥ ३४॥ .. 'प्रभाषन्ते' प्रतिपादयन्ति । कां ? 'प्रमादचौँ । किं तदित्याह 'क्षितीत्यादि । क्षितिश्च सलिलं च दहनश्च तेषामरंभ क्षितिखननसलिलप्रक्षेपण-दहनप्रज्वालन-पवनकरणलक्षणं । किं विशिष्टं ? 'विफलं' निष्प्रयोजनं । तथा 'वनस्पतिच्छेदं' विफलं । न केवलमेतदेव किन्तु, 'सरणं' 'सारणमपिच' सरणं स्वयं निष्प्रयोजनं पर्यटनं सारणमन्यं निष्प्रयोजनं गमनप्रेरणं ॥ ३४ ॥ एवमनर्थदण्डविरतिव्रतं प्रतिपाद्येदानीं तस्यातीचारानाह, कन्दर्प कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्च । . असमीक्ष्य चाधिकरणं व्यतीतयोऽनर्थदण्डकृद्विरतेः॥३५॥ १ प्रयोजनमन्तरेणापि वृक्षादिच्छेदन-भूमिकुट्टन-सलिलसेचनवधकर्म प्रमादचरितमिति कथ्यते ॥ रत्न०-५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456