SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। 'दुःश्रुतिर्भवति' । कासौ 'श्रुतिः श्रवणं । केषां 'अवधीनां ' शास्त्राणां किं कुर्वतां 'कलुषयतां' मलिनयतां । किं तत् 'चेतः' क्रोधमानमायालोभावाविष्टं चित्तं कुर्वतामित्यर्थः । कैः कृत्वेत्याह-'आरंभेत्यादि आरभश्च कृष्यादिः संगश्च परिग्रहः तयोः प्रतिपादनं वार्ता नीती विधीयते "कृषिः पशुपाल्यं वाणिज्यं च वार्ता” इत्यभिधानात्, साहसं चात्यद्भुतं कर्म वीरकथायां प्रतिपाद्यते, मिथ्यात्वं चाद्वैतक्षणिकमित्यादिप्रमाणविरुद्धार्थप्रतिपादकशास्त्रेण क्रियते, द्वेषश्च विद्वेषीकरणादिशास्त्रेणाभिधीयतेरागश्च वशीकरणादिशास्त्रेण विधीयते, मदश्च वर्णानां ब्राह्मणो गुरुरित्यादिग्रन्थाज्ञायते, मदनश्च रतिगुणविलासपताकादिशास्त्रादुत्कृष्टो भवति तैः एतैः कृत्वा चेतः कलुषयतां शास्त्राणां श्रुतिर्दुश्रुति भवति॥३३॥ अधुना प्रमादचर्यास्वरूपं निरूपयन्नाह;क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदं । सरणं सारणमपि च प्रमादचयों प्रभाषन्ते ॥ ३४॥ .. 'प्रभाषन्ते' प्रतिपादयन्ति । कां ? 'प्रमादचौँ । किं तदित्याह 'क्षितीत्यादि । क्षितिश्च सलिलं च दहनश्च तेषामरंभ क्षितिखननसलिलप्रक्षेपण-दहनप्रज्वालन-पवनकरणलक्षणं । किं विशिष्टं ? 'विफलं' निष्प्रयोजनं । तथा 'वनस्पतिच्छेदं' विफलं । न केवलमेतदेव किन्तु, 'सरणं' 'सारणमपिच' सरणं स्वयं निष्प्रयोजनं पर्यटनं सारणमन्यं निष्प्रयोजनं गमनप्रेरणं ॥ ३४ ॥ एवमनर्थदण्डविरतिव्रतं प्रतिपाद्येदानीं तस्यातीचारानाह, कन्दर्प कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्च । . असमीक्ष्य चाधिकरणं व्यतीतयोऽनर्थदण्डकृद्विरतेः॥३५॥ १ प्रयोजनमन्तरेणापि वृक्षादिच्छेदन-भूमिकुट्टन-सलिलसेचनवधकर्म प्रमादचरितमिति कथ्यते ॥ रत्न०-५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy