SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ६४ रत्नकरण्डकश्रावकाचारे प्रलम्भनं च वंचनं तानि आदिर्येषां मनुष्यक्लेशादीनां तानि तथोक्तानि तेषाम् ॥ ३०॥ अथ हिंसादानं किमित्याह;-- परशुकृपाणखनित्रज्वलनायुधशृङ्गिशृंखलादीनाम् । वधहेतूनां दानं हिंसादानंब्रुवन्ति बुधाः ॥३१॥ 'हिंसादानं ब्रुवन्ति' । के ते ? 'बुधा' गणधरदेवादयः । किं तत् ? 'दानं' । यत्केषां ? 'वधहेतूनां हिंसाकारणानां । केषां तत्कारणानामित्याह-'परश्वि'त्यादि। परशुश्च कृपाणश्च खनित्रं च ज्वलनश्चाऽऽयुधानि च क्षुरिकालकुटादीनि शृंगि च विषं सामान्य श्रृंखला च ता आदयो येषां ते तथोक्तास्तेषाम् ॥ ३१॥ इदानीमपध्यानस्वरूपं व्याख्यातुमाह; वधबन्धच्छेदादेद्वेषाद्रागाच्च परकलत्रादेः। आध्यानमपध्यानं शासति जिनशासने विशदाः ॥३२॥ 'अपध्यानं शासति' प्रतिपादयन्ति । के ते? 'विशदा' विचक्षणाः। क ? 'जिनशासने' । किं तत् ? 'आध्यान' चिन्तनं । कस्य ? 'वधबंधच्छेदादेः, । कस्मात् ? 'द्वेषात् । न केवलं द्वेषादपि 'रागाद्वा'ध्यानं । कस्य ? 'परकलत्रादेः' ॥ ३२॥ साम्प्रतं दुःश्रुतिस्वरूपं प्ररूपयन्नाह; आरम्भसङ्गसाहसमिथ्यात्वद्वेषरागमदमदनैः। चेतःकलुषयतां श्रुतिवरधीनां दुःश्रुतिर्भवति ॥३३॥ १ विषशस्त्राग्निरज्जुकशादण्डादिहिंसोपकरणप्रदानं हिंसाप्रदानमित्युच्यते ॥ परेषां जयपराजयवधाऽङ्गच्छेदस्वहरणादि कथं स्यादिति मनसा चिन्तनमपध्यानं ॥ . हिंसारागादिप्रवार्धितदुष्टकथाश्रवणशिक्षणव्यावृतिरशुभश्रुतिरित्याख्यायते ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy